________________
६२८
ब्याश्रयमहाकाव्ये [ भीमराजः] अन्यभूमिपतिनाम सदा शिश्रावयिष्यत इहास्य न कैश्चित् । एक एव हि भवानृपतिः शुश्रावयिष्यत इदं स्म समग्रैः ॥६७ ॥
६७. इह पृथ्व्यामन्यभूमिपतिनाम सदा न कैश्चिकैरपि नृपादिभिः शिश्रावयिष्यतेहयुत्वेनान्यनृपनानोप्यसहिष्णुत्वादस्य न सं. मालयितुमिष्यते किं तु हे चेदिपते हि स्फुटमेक एव भवान्नृपतिरिदमस्य समप्रैः सर्वैः शुश्रावयिष्यते स्म । इदमिति भिन्नक्रमे । मस्येत्यस्य व्याप्यत्वेपि संबन्धविवक्षया षष्ठी । एतेनायं त्वन्नामापि न सहत इत्युक्तम् ॥ तैरनेन वसु दण्डपदे सिस्रावयिष्यत इलापतिवगैः । यैः किलोद्भटभुजैरभितोसुस्रावयिष्यत धनं धनदेन ॥६॥ ६८. तैरिलापतिवगै रोजौषैः कर्तृभिरनेन चेदिना हेतुक; दण्डपदे दण्डस्थाने वसु द्रव्यं सिस्रावयिष्यते क्षारयितुमिष्यते । किति सत्ये । उद्भटभुजैर्बलिष्ठबाहुभिर्हेतुकर्तृभिरभितः सामस्त्येन धनदेन प्रयोज्यका धनमसुस्रावयिष्यत मुंजाबलेन यैर्धनदोपि दण्डं जिघृक्षित इत्यर्थः । एतेनास्य कोशसंपदतिशयोक्तिः ॥ अस्य कोपकठिनं हृदयं दिद्रावयिप्वरिकुलं चटु वक्ति। भक्तिवाग्भिरमुना खलु नादुद्रावयिष्यत जनः पुनरन्यः ॥६९॥
६९. अस्य चेदेः कोपकठिन हृदयं दिद्रावयिषु प्रसिसादयिष्वि१९ सिमाब'. बी सिमाव'. १ए 'युक्तेना'. २५ सर्वेषुः मा . ३ डी राजोधैः ४ ए हेतुः क. ५ ए वी 'foet. ६ वी पाडूमि'. ७५ भियहेतु. ८ई मस्तेन. ९वी मुभाव'. १.सीडी मुबई. ११ एक्षित. १२ई नं.