________________
[है० ४.१.४३.] अष्टमः सर्गः।
६२१ संग्रहार्य पूर्वस्येति योः समानाधिकरणं विशेषणं तेनेकारोकारमात्रेस्यैव पूर्वखे. युवौ ॥ अस इति किम् । ईपुः ॥
जहार । इत्यत्र "तोत्" [३८]इति ऋतोत् ॥ परिजगुः । विदुधाव । इत्यत्र "हस्वः" [३९] इति हैस्वः ॥ परिजगुः । जहार । इत्यत्र "गहोर्जः" [४०] इति जः ॥ अदिघुतन् । इत्यत्र "घुतेरिः" [ ४१ ] इति-इः ॥ चखान । विदुधाव । इत्यत्र "द्वितीय" [४२ ] इत्यादिनाद्यतृतीयौ ॥ नो ऋतिच्छिषति सामनि तिष्ठेवाभ्यचिच्छिषति किं तु स दण्डे । छीचकार स यदा परिटिष्ठेवाथ जीव बुङवे नृपचक्रम् ॥ ५७॥
५७. स सिन्धुपतिरुद्धतत्वात्सामनि सान्त्वनोपाये नोऋतिच्छिषति । न जिगमिषति । ऋच्छ गतावप्यन्ये। तथा सामन्येव विषये तिष्ठेवावज्ञया थूञ्चकार । तर्हि क जिगमिषतीत्याह । किं तु दण्डेन्त्योपायेभ्युचिच्छिषत्याभिमुख्येन यियासति । अत एव स सिन्धुपतिर्यदा छीचकार चुक्षावाथाथ वा यदा परिटिष्ठेव थूत्कृतवांस्तदा नृपचक्रं जीव बुडवे बभाषे । जीवेति कर्मपदमनुकरणम् । अनुकार्यानुकरणयोरभेदविवक्षया द्वितीयाया अभावः। यद्वाति शब्दोगम्यः । जीवेत्युवाचेत्यर्थः।
तिष्ठेव टिष्ठेव । इत्यत्र "तिर्वा डिवः" [३] इति वा तिः ॥ केचितु "स्वरेभ्यः" [१.३.३० ] इति द्विरुक्कस्य उस द्वित्वे सति पूर्वस्व त्यादेश. मिच्छन्ति । तन्मते ऋतिच्छिपति इति सात् ॥
१ बहुषु पुस्तकेषु छिन् इति धातो रूपाणां खानेषु ए इत्यत्र द इति दृश्यते । १डी प्रस्ये. २सी 'ति रितो'. ३५ हख ॥. ४ सी डी छिर ग. ५ए येभ्यचि.