________________
६१९
[ है ०.४.१.३१.] अष्टमः सर्गः । तं जिगाय शिवशाणपति माजीहयत्वकटके स च दूतैः। यं जिगीषति न कोपि चिकीर्षु वाजिभियुधि न चापचिकाय॥५४॥
५४. तं शिवशाणपति शिवशाणदेशाधिपं स सिन्धुपतिर्जिगायाभिभूतवान्दूतैः कर्तृभिः स्वकटके प्राजीहयच्चानाययच्च । चो भिन्नक्रमे । जित्वा सदा स्वसेवकं चकारेत्यर्थः । एतेनास्य प्रभुत्वशक्तिरुक्ता । प्रचुराश्वसाधनत्वाद्वाजिभिरश्वैश्विकीपुमुपचेतुमिच्छन्तं यं न कोपि युधि जिगीषति । तथा यं कोपि न चापचिकाय नापचितं क्षीणबलं चक्रे ॥
निश्चिका(चा)य बलमस्य न कश्चिनिश्चिचीपति न चाशयमस्य । दुर्मतिस्त्वयि यदेष इयेषोवोष नः स तदियर्त्यनलत्वम् ॥५५॥
५५. अस्य सिन्धुपतेर्बलं पराक्रमं न कश्चिदलिष्ठोपि निश्चिका(चा)ये. तावदिति निर्णीतवान् । एतेनोत्साहशक्तिरुक्ता । तथातिगूढहृदयत्वादस्याशयं चित्तं न कश्चिनिश्चिचीपतीदृशमिदमिति ने निर्णिनीषति । एतेन तु मत्रशक्तिः । अत एवैष दुर्मतिर्दुष्टाशयः संस्त्वयि विषये यद्धिसादिकमियेषैच्छत्तन्नोस्मानुवोष दाह । अत एव तन्नोस्माकमन. लत्वमग्नितामिति स्म जगामानितुल्यमभूदित्यर्थः ॥
१ए जिघाय. २ ए कीषु वा. सी कीर्षु वा'. ३ ए 'चिषाय.
१ सी वान्तः क. २बी चानायच. ३ई क्रमो जि. ४ सी डी कीर्घमु. ५ ए "श्चिदिलि'. ६ ए बी "लिटोपि. ७ डीई ति न नि'. ८ ए बानेनो. ९एन निर्णि'.