SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ [है. ४.१.२७.] अष्टमः सर्गः। श्रेथिथ श्लथमिमं किमु हारं श्रेयुरेवमपरेप्यथ न त्वम् । ग्रेथिति परिभयं वधूः शैश्रन्धुरन्ध्रनरपा भवदर्थम् ॥ ४८ ॥ ४८. अन्ध्रनरपा अन्ध्रदेशराजा भवदर्थ हारं शंश्रन्थुः स्वयं गुम्फितवन्तः । किं कृत्वा । वधूः स्वभार्याः परिभर्त्य प्रत्येक संतज्य । कथमित्याह । इमं हारं किमु किमिति श्लथं शिथिलं त्वं श्रेथिथ गुम्फितवती । अथाथ वा न त्वमेव हारमेवं श्लथं प्रेथिथ । गुम्फितवती किं तपरेप्यन्ये मत्र्यादयोपि हारं श्लथं श्रेथुरिति । अनेनैषां भीम आदरातिशय उक्तः । ग्रेथुरय्यमितिहासमथो जग्रन्थुरद्भुतकथाश्चरितैस्ते । मागधा न खलु देभुरतः शश्रन्थिय स्वकगुणैः कतमं नो ॥४९॥ ४९. मगधस्य राज्ञ इमे मागधा मगधराजलोकास्ते तव चरितैः कृत्वाम्यं प्रधानमितिहासम् । इतिहासो यथावृत्तम् । तत्प्रधानः प्रबन्धोप्युपचारादितिहासः । तं वर्णनाविरहेण पुरावृत्तप्रतिबद्धं प्रबन्धभेदं ग्रेथुररचयन् । तथाद्भुतकथा अद्भुता रसालंकारैराश्चर्यकारिण्यो याः कथा धीरशान्तनायका गद्यबन्धाः पद्यबन्धा वा सर्वभाषावर्णनारूपाः प्रबन्धभेदास्तांश्च जग्रन्थुः । खलु निश्चयेन न देभुर्न देम्भं चक्रुरान्वरभक्त्या चरित्यर्थः । अतो हेतोः स्वकगुणैः स्वका गुणाः शौर्यादय एव गुणा रजवस्तैः कृत्वा कतमं नरं नो शश्रन्थिथ न बद्धवान् किं तु सर्वमपि वशीचकर्थेत्यर्थः ॥ १ डी र सेयु. २ एथि प. ३ ६ शमन्यु'. १डी जानो भ. २ ई शस्रन्यु:.' ३ सी रिश्रय प्र. ४ सी डी 'तर्ष । क. ५ सी किमि . ६डी त्वं डेथि. ७ सी डी ब. ८ वी सीसी ' पु. ९ सी डी पानप्र. १.बी सी वास्ताक्ष. ११५ दम्म च'. १२५ सी डीरवन.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy