________________
व्याश्रयमहाकाव्ये [ भीमराजः नो न देभिय ददम्भिव नो जग्रन्थियावमिवाच्युतगोपः । सोसि देम्भिय पुनः किमिति त्वां संदिशन्ति यमुनातटघोषाः॥५०॥
५०. यमुनातटघोषाः कालिन्दीतटगोकुलस्थलोकास्त्वां संदिशन्ति । कथमित्याह । हे राजन् । इवो भिन्नक्रमे । अच्युतगोप इवा. च्युतो विष्णुर्यो गोपो गोधुक्स यथा गोपगोप्यादिषु दम्भं चक्रे न चार्जवं चकारैवं त्वं नो न देभिथ न नच्छद्माकार्षीः किं तु दद. . भिथ । प्रथममयोगव्यवच्छेदे वाक्यम् । दम्भेन सहायोगो व्यवच्छिद्यते । द्वितीयं त्वन्ययोगव्यवच्छेदे । अन्यस्यापि दम्भो घटते । परं त्वमेव ददम्भिथेत्यैन्यस्य दम्भन योगो व्यवच्छिद्यते । त्वमेव शत्रुष्वनेकधा छलं चकथैवेत्यर्थः । दम्भवानप्ययं कदाचिदार्जवर्मपि कृतवान्भविष्यति नेत्याह । न जग्रन्थिथार्जवं मायाविष्णुः कदाचिदपि सरलस्वभावं नो चकर्थेत्यर्थः । यद्येवं ततः किमित्याह । असि त्वं सो. न्युतगोपः । किमिति पुनः किमर्थं पुर्नम्भिथान्यादृशरूपप्रकाशनेना. च्युतगोपो नास्मीति मायां चकर्थेत्यर्थ इति । एतेन यमुनातटघोपाणामच्युत इव भीमे भक्त्यातशय उक्तः ॥ श्रेन्यिथोच्चिचयिथापि न पुष्पं ग्रेन्थिथ सज इहाखिलदिक्षु । कीर्तिभिः शशसिथाशु तमिस्र दूरगान्ववणियेव पुरस्तात् ॥५१॥ ___५१. हे राजंस्त्वं पुरुपं कुसुमजाति नोचिचयिथ नोचितवान श्रेन्थिथापि न प्रथितवांश्च । परमिह जगत्यखिलदिक्षु कीर्तिभिः कृत्वा
१बीसीडी सि देभि. २५ श्रेथियो'. ३ ए यात्रु त. ४ ए बी सी डी मिश्र दू.
१सी गोपादि. २ बी व त्वं. ३ डी कार्षी किं. ४डी त्यस्य. ५ वी ईदभुवनध्य . ६ सी मधि कृ. ७बी डीई 'विषु क०. ८ बीई
न. ९ सीडी 'नर्देमि'. १० सी थे . ११ बी क्तः ॥ अधि.' १२ वी पुष्पं कु. १३ ए "श्चियथ. १४ बीन अन्थि'. १५ सी अथिया'. १६ डी.मन्वित.