________________
[ है ०४.१.२५.]
अष्टमः सर्गः।
खेनुरेषु पफणुस्तव मृताः सस्वनुस्तव गुणांश्च विफेणुः। तत्रसुः स्वविषये न हि यत्रेसुरत्र न चरा अपि तद्वत् ॥ ४५ ॥
४५. हे राजंस्तव सूता भट्टा एषु पूर्वोक्तेषु वृन्दावनादिविषयेषु पफणुर्जग्मुः । तथा विफेणुर्भयाभावेन स्वेच्छाचारित्वाद्विशिष्टं जग्मुः । तथा स्वेनुस्त्वदाशीर्वादायूचुः । तथा तव गुणान्सस्वनुश्चाकीर्तयंश्च । तथा तव चरा अपि हेरिका अपि । किं पुनः सूतादय इत्यप्यर्थः । यद्वद्यथा स्वविषये निजदेशे गूर्जरत्रायां न हि नैव तत्रसुर्बिभ्युस्तद्वत्तथा. त्रैषु देशेषु वृन्दावनादिषु न त्रेसुः ॥ सस्यमुर्यदलयो यदु हंसाः स्येमुराः कुरुषु तन्न रराजे । रेज ईश तव कीर्तनमाबभ्राज इन्द्रसुतवर्णनकं वा ॥ ४६॥
४६. उ हे ईश स्वामिन्नलयो भृङ्गा यत्सस्यमुः शब्दायिता यच्च हंसाः स्येमुस्तत्स्यमनम् । आ इति खेदे । कुरुषु देशेषु न रराजे सुखदं नाभूदित्यर्थः । खेदश्च तच्छब्दानां मधुरत्वेन सुखदानामप्यसुखकत्वात् । तर्हि किं रराज इत्याह । तव कीर्तनं वर्णनकं कुरुषु रेजे । वा यद्वा । इन्द्रसुतवर्णनकमर्जुनवर्णनाबभ्राजे कर्णाहादकमभूदित्यर्थः ॥ भ्रेज ऐल इति राघव आवभ्रास ईश्वरगणः परिभ्रेसे । भ्लेस आर्किरजभूपतिरावभ्लास इत्यनुदिशं त्वयि वादाः ॥४७॥
४७. इत्येवंविधा वादास्त्वयि विषयेनुदिशं प्रतिदिशमभूवन् । के
१ वी कीर्तिन. १ सी डी नुस्तदा'. २ सी नुश्चकी'. ३ बी मन् मा . एन.