SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ६१२ व्याश्रयमहाकाव्ये [ भीमराजः] तानि तेत्तिरीयाणि यजूंषि प्रतीपं याचितः संस्तानि मूर्तानि तित्तिरिरूपाणि योगप्रभावाद्वमति स्म । वमनानन्तरं महर्षिणा तित्तिरीभूय प्रसित्वा तेषां च यजुपां शिष्येभ्यः प्रतिपादनाद्यजुर्वेदप्रसिद्धा तैत्तिरी शाखा जज्ञे । तस्याश्च याज्ञवल्क्येन वान्तानि तित्तिरिरूपाणि यजूंषि कारणमिति कार्यकारणयोरभेदोपचाराद्ववमिथापि च शाखामित्युपपन्नं स्यात् । याज्ञवल्क्यस्य विष्णुत्वेनोपवर्णनं महाप्रभावत्वात् । यदुक्तम् । यद्यद्विभूतिमत्सत्त्वं प्रभावोत्कटमेवे वा। तत्तदेवावगच्छेस्त्वं मम तेजोंशसंभवम् ॥ इति ॥ तथा यत्र देशेषु यमुनातटेष्वर्भककेल्या गेन्दुकशङ्खलाक्रीडादिकया बालक्रीडया हेतुना फेणिथ गोपबालकैः सह गतः । तथापफणिथागतश्च । तथेषन्मनाक त्रेसिथ गेन्दुकादिप्रहाराशङ्कया भीतः । तथो. वैरभितत्रसिथ चाभिमुख्येन भीतश्च । विष्णुहि कृष्णावतारे कंसभयेन बालकाले यमुनातटस्थेषु नन्दंगोकुलेषु गोपरूपेणोषित इत्यागमिकाः । तथा यत्र देशे यमुनातट वृन्दावने वा गोषु धेनुषु मध्ये रेजिथ गोरक्षाद्यर्थ गोवर्धनायुद्धरणाद्यवदातैः शोभितः । तथा गोपैः परिवारभूतैर्गोपालैः कृत्वा रराजिथ । तथा स्येमिथापि सिण्टाशब्दांश्च. कर्थ च न च सस्यमिधाप्यन्यकार्यव्यग्रतायां सिण्टाशब्दान्न चकर्थ च । गोपा हि जातिखभावनान्यकार्याव्यप्रतायां सिण्टाशब्दान्कुर्वन्ति । केशिकंसवधादीनि वृत्तानि लोकप्रसिद्धान्येवेत्यत्र नोक्तानि ॥ १पी री प्र. २९ 'पयुर्वे'. ३ ए बी सी याश्यब'. ४बी सी पल्केन. ५ सी डी व च । व.६ सीसी शेय'. ७ सी सीन्दकु. ८ एटे बन्दा ९ सी डी 'नाम्युर. १.सी पाकार्येप्यन्यन्य' सी याकार्यप्यन्यन्य ११बीयां शण्टा'. १२५ सिण्डाश'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy