________________
(है. ४.१.२५.]
अष्टम: सर्गः।
६११
कृष्णावतारेण केश्यादिदैत्यवधार्थं भ्रान्तः । यथोचैः केशिनं केशिसंज्ञमश्वरूपं दैत्यं जेरिथ मुखमध्ये स्वबाहुप्रवेशेन विनाशितवान् । तथा यत्र देशे मथुरायां कंसं दैत्यमुजजरिथापि च । तथा यत्र देशे शोणितपुरेभिवलि बलिदैत्यं लक्ष्यीकृत्याभिमुखं भ्रमिथ वामनरूपेण ब. लिवन्धनाय भ्रान्तः । तथा यत्र देशे क्षीरसमुद्रोपकण्ठे वेदानृग्यजुःसामाख्यान्वेमिथ मत्स्यरूपेणोदीर्णवान् । पुरा हि किल चतुर्दशभुवनप्रलये हरि भिपद्मे ब्रह्माणं निर्ममौ । स च वेदानस्मार्षीन्मानसान. षींश्च निर्ममौ । तस्य च वेदान्स्मरतो जृम्भायामागतायां मुखे विवृतेकस्माच्छङ्खाख्यो दैत्यः प्रविश्य वेदानाहृत्य क्षीराब्धौ प्रविष्टस्ततच ज्ञानवैकल्येन ब्रह्मा शून्योभून्मानसर्षिभिश्चामुं शून्यतावृत्तान्तं विज्ञपितो हरिर्दिव्यचक्षुषा ज्ञातपरमार्थो मत्स्यरूपेण क्षीराब्धौ प्रविश्य शङ्ख हत्वा वेदानाहृत्य ब्रह्मणो मुखे वान्तवानित्यैतिह्यम् । तथा यत्र देशे मिथिलोपवने तैत्तिरी तित्तिरेरिमां शाखां यजुर्वेदांशं ववमिथापि च याज्ञवल्क्यरूपेणोद्गीर्णवांश्च । अत्र किल कस्यापि नृपतेः प्रणयिन्या निरपत्यतादुःखमपनेतुमाशिषं दातुं शाकल्यगुरोरादेशेन शान्तवेषाकारा विनेया: सदा ययुः । कदाचिदन्येषामसंनिहिततया गुरुर्याज्ञवल्क्यमेव प्राहिणोत्तं च नववयस्तया रचितचारुवेषाकारं सविकारमि. वाशिषं दातुमुद्यतं दृष्टाहो अस्य महर्षेराशिषः प्रभावः स्थाणुमपि पल्लवयतीति राज्ञी सविस्मयमुपजहास । स च क्रुद्धस्तत्पुरः स्थाणुमेव सप्रभावतया तैरेव स्वैरक्षतैः पल्लवयित्वा गुरोः समीपमाययौ । सा च संभ्रान्ता तमानेतुं नृपेण गुरुमर्थयामास । नृपानुरोधाद्गुरुणा निर्बध्यमानोपि स यदा न ययौ तदा गुरुणा क्रुद्धेन स्वयमध्यापि
१सी शिसं. २ ५ लक्षीकृ'. ३ सी नादयः ४ ए 'नवानृ. ५ एमासहा. ६ बीच तान'. ७ बी विज्ञापि. ८ ए वयुर्वे. ९सी क्यस्तपे'. १० पर्याश्यव'. ११ बी त्पुरुस्था सी 'त्युसंस्था'. १२ ए प्र.