________________
[है० १.३.६.] प्रथमः सर्गः।
३५ इत्यत्र "रः कखे"[५] इत्यादिनापौ वा ॥ पक्षे । प्रीतः कलिः । कलिः खिमः । धर्मः प्रीतः । खिमः फलितः ॥
स्वयंभूश्श्रीपतिः शंभुस्सूर्यः सोमषडाननः ।
नृपैः षट्चक्रभृत्तुल्यैरस्यान्तस्स्थापिताः सुराः ॥ ४६॥ ४६. नृपैर्वनराजादिभिर्महाधार्मिकत्वादस्य पुरस्यान्तर्मध्ये धर्मार्थकारितनव्यप्रासादेषु स्वयंभूर्भगवानहन् ब्रह्मा च । श्रीपतिर्विष्णुः । शंभुर्हरः । सोमश्चन्द्रः। सूर्यो रविः । षडाननः स्कन्दश्च । एते सुरा देवाः स्थापिताः । किंभूतैः । षण्णां चक्रभृतां मांधातृ(१)धुन्धुमार(२)हरिचन्द्र(३)पुरूरवो(४)भरत(५)कार्तवीर्या(६)ख्यानां समाहारः षट्चक्रभृत् । बलसैन्यादिना तेन तुल्यैः ।।
स्वयंभूश्श्रीपतिः । सोमषडाननः । शंभुस्सूर्यः । अन्तस्स्थापिताः । इत्यत्र "शषसे शषसं का" [६] इति वा शषसाः ॥ पक्षे । श्रीपतिः शंभुः । नृपः षट् । सूर्यः सोमः ॥
निस्तन्दैश्चञ्चलैश्छेकैष्टीकमानैष्ठकारिभिः ।
तैस्तैस्थट्टैरिहा धानां रसति व्यथितेष भूः ॥ ४७ ॥ ४७. इह पुरेश्वानां तैस्तैः । अनेकरित्यर्थः । थट्टैः समूहैः कृत्वा भू रसति शब्दायते । कीदृशैः । निस्तन्द्रनिरालस्यैस्तेजस्विमिरित्यर्थः । चचलैर्जात्यहयखभावेन चपलैः । छेकैः सुशिक्षितत्वेन गतिपञ्चककरणदऔरत एव टीकमानै सालिकादौ वल्गदिरत एव च ठकाराकारखुरैर्भूम्या हननेनं ठं ठकारं भूपृष्ठे कुर्वन्तीत्येवंशीला ये तैष्ठकारिभिः । उत्प्रेक्ष्यते । व्यथितेव पीडितेव । अन्योपि हि व्यथावान् रटति । भुवश्च
१ एफ खपफ इ. २ सी रिनव्याप्रा. ३ डी भृतानां मां'. ४ बी एफ कैम्थट्टै:. ५ ए सी र्थः । स्थट्टैः. ६ सी डी न . ७ सी डी प्रेक्षते.