________________
३४
व्याश्रयमहाकाव्ये
[ मूलराज: ]
3
यिनां द्विजानाम् । वषट् श्रौषट्शब्दावव्यये मन्त्राक्षरे इन्द्राहुतौ वर्तते । शान्तिकर्मार्थाग्निकारिकादिविधानकाले वषट्परूपा वाक् वाणी सुधामिव सुधां योतति स्रवति । मार्याद्युपद्रवोच्छेदकत्वेनात्याह्लादकत्वात् । एतेनास्य पुरस्य निरुपद्रवत्वमुक्तम् । तथा श्रियं लक्ष्मीदेवीमिह पुर आगतां पश्यन् सन्नप्सु जलेषु शेत इत्येवंशीलोप्छायी स चासौ देवश्चाप्छायिदेवोब्धिशयन: श्रीपतिर्नाप्शायी नाव्धिशयनः संभाव्यते । प्रस्तावादत्र संभाव्यत इत्यध्याहार्यम् । श्रियोत्रागमनात्समुद्रे तद्वियोगे निद्राया अभावाच्छ्रीपतिरप्यत्रागत इति संभाव्यत इत्यर्थः ।
वाक्तूरान् अवाकिराः। तच्छ्रुतम् यच्श्वेतम् । वचटुौषट् श्रौषट् शान्ति। अच्छायि
1
अप्शायी । इत्यत्र “प्रथमाद् " [ ४ ] इत्यादिना वा छः ॥ प्रथमादिति किम् । पश्यम् श्रियम् ॥ अधुटीति किम् । वाक् योतति ॥
अस्यान्तङ्कृतिभिङ्कल्यैसजैत्रै९७फलदै ७ परम् ।
धर्मः प्रीतः कलिः खिन्नः फलितः सन्मनोरथः ॥ ४५ ॥
४५. अस्य पुरस्यान्तर्मध्ये कल्यैर्दानशीलतपःस्वाध्यायादिभिर्धर्मक्रियाभिः कृत्वा परमतिशयेन धर्मः प्रीतः प्रहृष्टः । विजृम्भित इत्यर्थः । अत एव कलिः पापयुगं खिन्नः संतप्तः । अत एव च सन्मनोरथः सतां साधूनां मनोवाञ्छा फलितः सिद्धः । किंभूतैः सद्भिः । खजैत्रैर्जेतार एव प्रज्ञाद्यणि [ ७.२.१६४.] जैत्राः । खानामिन्द्रियाणां जैत्रा वशीकारिणस्तैः । अत एव पुण्यहेतुत्वेन कृतं पुण्यमस्त्येषु तैः कृतिभिः । अत एव फलं स्वर्गापवर्गादिकं ददति ये तैः फलदैः ॥
कृतिभिङ्कुस्यैः । भन्तङ्कृतिभिः । कल्यैज्जैत्रैः । फलदै परम् । खजैत्रै फलदैः ।
१ एफू नांव २बी रूपवा. ३ सी डी एफ् 'ति श्रव ४ सी 'नां वा. ५ पफू जैत्रा व ६ डी दैः । अन्त. ७ डी म् । इत्य.