________________
[है० १.३.३.]
प्रथमः सर्गः ।
रत्रिक श्रेयइच्छया निष्पापं निरवद्यं वस्तु चेष्टयन् व्यवहरन्सन्धर्मार्थाभ्यां धर्मधनाभ्यां युतो निरीक्ष्यते । भवतो हि निष्पापव्यापारिणां धर्मार्थाविति । पाणिन्यादयो हि केचित् स्वरव्यञ्जनयोरर्च्हल्संज्ञां कुर्वन्ति । ततो यथानच् स्वररहितो हल् व्यञ्जनम् अच्हल्भ्यां स्वरव्यनाभ्यां युतो निरीक्ष्यते । अस्वरं हि व्यञ्जनं पुरः स्थिताभ्यां स्वरव्यञ्जनाभ्यां युतं स्यात् ॥
बाग्वादिनः विप्वग्हिताः । अनज्झल् अज्हल्भ्याम् । द्विति तुरापाडियम् । तावद्धिमांशुः तावद् हेमाद्रिः । ककुब्भासैः ककुब्हस्ति । इत्यत्र "ततो हश्वतुर्थ: " [३] इति वा चतुर्थः ॥ तत इति किम् । चेष्टयन् हित ॥
वाक्छूरान्वीक्ष्य सोप्यस्मिन्वाक्पतिः स्यादवाकराः ।
राज्ञां यशोभिस्तच्छ्रेतं यच्श्वेतं न कदाप्यभूत् ॥ ४३ ॥ ४३. अस्मिन्पुरे वाक्छूरान् वाचा सुभटान्महावादिनो वीक्ष्य स वाक्पतित्वेन सर्वत्र प्रसिद्धो वाक्पतिरैपि बृहस्पतिरप्यवाकिरा लज्जया नीचैर्मूर्धा स्यात् । संभावनेत्र सप्तमी । अत्रत्यविदुषां वाक्पतेरप्यतिमात्रं वाग्मित्वादिदमहं संभावयामीत्यर्थः । तथा यद्वस्तु कज्जलव्योमादि सदा कृष्णत्वेन कदापि श्वेतं शुभ्रं नाभूत्तदप्यत्र राज्ञां वनराजादीनां यशोभिरतिबाहुल्याच् श्वेतमभूत् । कविरूढ्या हि यशः श्वेतं वर्ण्यते ॥
वषद्वैौषट् शान्तिकृतां वाक् श्योतति सुधामिह ।
३३
अच्छोदेवो नापायी पश्यम् श्रियमिहागताम् ॥ ४४ ॥ ४४. इह पुरे शान्तिकृतां नगरादिक्षुद्रोपद्रवमार्याद्युपशान्तिविधा
१ एफू 'छायी दे..
१ बी 'यो के. २ बी सी च्अल्. ३ सी डी 'रप्य. महाकृ. ५ सी डी 'न्तिध्यायि'.
४ एफू दि