________________
[ ३० ३.४.७४.]
अष्टमः सर्गः ।
भीमः कुष्णाति किं तु स्वयमेव कुप्यति शतरि कुध्यन्स्वयमेवाकृष्यमाण: कूच दाडिका यस्य सः । तथा कुव्यमाणावतंसः स्वयमाकृष्यमाणमूर्धमाल्यः । कूर्चेवतंसे चाङ्कस्थेन भीमेनाकृष्यमाणे राजामात्याश्च हर्पेण रञ्जिता इत्यर्थ: । वा यद्वा तस्मिन्नङ्केन संसिन्वाने हर्ष प्रसुन्वन्संदधानो वर्धयन्नित्यर्थः । अनुरागस्तद्विपय आन्तरस्नेहः कान्न निराक्ष्णोन्न व्याप्नोत्किं तु सर्वानपीत्यर्थः ॥ अक्षन्मौठिं सोथ शृङ्गाण्यतक्ष्णोक्रीडणानामभ्यतक्षन्नखांश्च । चापेस्तनाच्चैप पूर्वां दृशं चांस्तभ्नोत्स्तुभ्नोति स्म नोचर्गुरौ स्वम्
॥ १३ ॥
५८९
८
१३. अथ प्रौढि शरीरोपचयमन्व्याप्नुवन्स भीमश्चले लक्ष्यव्यधनाभ्यासाद्यर्थं मृगयाचिकीर्षया क्रीडैणानां हस्तलेयमृगाणां शृङ्गाण्यतक्ष्णोच्चिच्छेद नखांश्च खुराप्रभागांश्चाभ्यतक्षत् । शृङ्गच्छेदे ह्येषां शरीरे काष्यं न स्यात् । मृगीसादृश्यं च स्यात्ततो मृग्य एता इति ता नारण्यमृगा अभिसरन्ति । वर्धितनखच्छेदे त्वेषामस्खलिता गतिः स्यादिति मृगयार्थिनो हस्तलेयकृष्णसार मृगाणां शृङ्गाणि नखांच छिन्दन्तीति स्थितिः । तथैप भीमञ्च लक्ष्यमृगादिवधीर्थं चाप उपचाराद्धनुर्ग्रहविषये पूर्वां च कलाचिकां चास्तम्नान्निश्चल्यकरोदृशं चास्तनोन्निश्चलां स्थापितवान् । एतदपि कुत इत्याह । यतो गुरौ विद्याचार्य उच्चैरत्यन्तं स्वमात्मानं न स्तुनोति स्म न स्तब्धं चक्रे विनीतोभूदित्यर्थः । यद्वा प्रौढिमक्षन्स भीमः क्रीडैणानां शृङ्गाणि नखांश्च
93
१४
१ ए सी डी चास्तुनो.
१ ई कु. २ एकूचोद
'लक्ष्य'. ६ बी 'लक्षव्य'.
३ ए दाडिका ४ सी डी बन्नपी. ५ई ७ सी डी 'तक्ष्यत । शृ. ८ ए सी 'ति ना. ९ 'लक्ष. १० सी डी ई 'दिव्यधा ११ सी 'धायें चा १२ बी सी डी 'क' १३ सी 'नं ते स्तु. १४ डी फ्रीडेणा