________________
५८८
व्याश्रयमहाकाव्ये
[भीमराजः]
वानरस्तस्मिन्संयस्यति वालकाभिमुखधावनार्थमुद्यच्छति सति द्राक् प्रस्यन्तो बिभ्यतोत एव यस्यन्त आत्मरक्षायै प्रयतमानास्तथा लाम्यन्तो दीनीभवन्तोन्ये भीमाव्यतिरिक्ता येर्भकास्तेपु तथा सत्स्वेष भीमो नात्रसत् । अत एव नाकामनायसच किं त्वसंयसन्नप्रयत्नवान्सँन्केल्या कौतुकेन सं प्लवङ्गं द्रष्टुमलपदैच्छन् ।
अशय्यत । इत्यत्र "क्यः शिति" [७०] इति क्यः ॥ कीरता । इत्यत्र “कर्तरि" [१] इत्यादिनों शव् ॥ अनन्य इति किम् । भक्ति। दीव्यताम् । नत्र "दिवादेः श्यः" [७२] इति इयः ॥ भ्रास्यमानान् भ्रासमानः । भ्लास्यमानस्य भ्लासते । भ्राम्यतः अभ्रमत् ।
काम्यतः कामन् । क्लाम्यत् अक्लामत् । त्रस्यत् अत्रसत् । अत्रुव्यत् अत्रुटन् ।
लप्यता अलपत् । यस्यत् । अयसत् । संयस्यति असंयसन् । इत्यत्र "भ्रासभ्लास' [३] इत्यादिना वा श्यः ॥ कुष्यत्कूर्चः कुष्यमाणावतंसोरज्यद्राजारज्यतामात्यवर्गः । संसिन्चानेडुन तस्मिन्प्रमुन्वन्हर्ष कान्वा नानुरागो निराक्ष्णोत्
॥१२॥ १२. तस्मिन्मीमेकेनोत्सङ्गेन सह संसिन्वाने संबद्धी भवति राजा दुर्लमोरज्यदरजद्रागयुक्त राजानमकरोद्भीमः । प्रेमवशादनायासेन राझो रजितत्वात्प्रयोका विवक्ष्यते ना{ भीमोरजत्किं तु स्वयमेवारज्यत्तथामात्यवर्गश्चारज्यत स्वयमेव रागयुक्तोभूत् ।कीहक्सन् । कुष्यत्कूर्च: कुष्णात्याकर्षति बालखभावेन कूर्च भीमः । प्रयोका विवक्ष्यते नामुं १एसी नेकेन. १डी मावति'. २ ए बी सी डी सम्यन्ना. ३ बी यस्यन्न. ४ ई न्स. केल्या. ५ सी ना सिन्. ६ ए बी शच् ॥. ७ बी सी 'वादे श्यः. ८ बी ष्यत् ... ए ने सरसं. १० सी युकरा.