________________
५७८ ब्याश्रयमहाकाव्ये
[दुर्लभराजः] अल्कोधात्पयो नाचदर्यमाशा अशिश्चियत् ।
गन्तुं ये चाशिपन व्यत्यशिपताख्यच्च साधु तान् ॥१३४॥ १३४. अर्त्या भयातिरेकोत्थमनःपीडयाङ्गोङ्गदेशाधिपो धैर्य चित्तावष्टम्भं नावन्नागमदत एवाशा दिशोशिश्वियनष्ट इत्यर्थः । किं बहुना पयो जलमपि नाधान्न पपौ । तथा ये भटा गन्तुं नंष्ठुमशिषन्नशिभयन्नात्तं तानङ्गो गन्तुं व्यत्यशिपत विनिमयेनाशिक्षयत्तान्साधु यथा स्यादेवमाख्यच्च साधु साधूक्तं भवद्भिरिति तान्प्रशंसितवांश्चेत्यर्थः ।।
अपास्थतांस्त्रं मालव्यो न्यवोचच्च पलायितुम् ।
शासत्सु व्यत्यशासिष्ट नाभ्यसापीदपासरत् ॥१३५ ॥ १३५. मालव्योलमपास्थते तत्याज पलायितुं न्यवोचच्च पलाय्यत इत्यवदश्चेत्यर्थः । तथा पलायितुं शासत्सूपदिशत्रौँ व्यत्यशासिष्ट विनिमयेनोपादिक्षदत एव नाभ्यसा नाभिमुखमगमत्कि त्वपासरदनेशत् ।।
जस्तैः समाष्टं नो पुत्रः कलत्रैर्न समारत । हूणो निरारदन्वाषींनष्टानाहत्तथापरान् ॥ १३६ ॥ १३६. हूणो हूणदेशाधिपर्यस्तै तैः पुत्रैः सह न समाष्टं न समगस्त । तथा कलत्रैश्च न समारत किं तु निरारद्रणानिर्गतः । भयभीतान्पु. त्रान्कलत्राणि च मुक्त्वा स्वप्राणानादाय नष्ट इत्यर्थः । अत एव न. ष्टानन्वार्षीदन्वगमत् । तथापरानन्याननष्टानाहदाकारयत् ।। १सी शिश्रिय. २९ तात्रं मा. ३९ शाशत्म.
१ सीरी शिश्रिय'. २९ न्तुं नष्टु. ३ वी विनम'. ४ डी च स सा'. ५५ °त त्या . ६ एयितं शा. ७९ शाशत्सू. ८पत्सु शा. ९ सीडी म्पतिशा. १० सी डी मस्तैः पु. ११५ बी सी ई न्यानष्टा'.