________________
[ है. ३.४.५५.] सप्तमः सर्गः । अत्राप्सीत् अनृपत् । अदासुः अपन् । इत्यत्र "स्पृशमृश" [५४] इत्या. दिनो वा सिच् ॥
य आविक्षस्तमद्विक्षस्तमद्राक्षुश्च दर्पतः । ताज्यघुक्षच्छरेरेप न्यकोपीत्तदसूनपि ॥ १३१ ॥ १३१. तान्नृपानेप दुर्लभः शरैन्य घुक्षदाच्छादितवांस्तदसूंस्तत्प्रा. णान्यकोषीदप्याकृष्टवानपि । तानवधीच्चेत्यर्थः । ये नृपास्तं दुर्लभमद्विक्षन द्विष्टवन्तः । अत एवाविक्षन्कोपात्तस्मिन्संरम्भं चक्रुः । तथा दर्पतो बाद्यवलेपोत्तमद्राक्षुश्च ।।
न्यघुक्षत् । आविक्षन् । अद्विक्षन् । इत्यत्र "हशिटः" [५५] इत्यादिना सक् ॥ अटश इति किम् । अद्राक्षुः । अनिट इति किम् । न्यकोपीत् ॥
यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । नाचीकमत कोप्यत्रं तथौजो यमशिश्रियत् ॥ १३२ ॥ १३२. अयं दुर्लभस्तथौजो बलमशिश्रियद्यथाश्वोश्वमुपाश्लिक्षद्रथो रथमुपाश्लिषत् । भयेन युगपच्छीघ्रं संमर्दैन नाशादश्वा रथाश्च मिथ आस्फलन्नित्यर्थः । तथा यथा कोपि पत्तिरखं नाचीकमत दुतं नाशेन नैच्छत् । एतेनाश्वरथपत्तिनाश उक्तः ॥ अथ गजानामाह। गजतादुद्रुवत्तस्माद्यान्मूत्रमसुनुवत् ।
न चाचकमत स्थातुं पयांस्यपि नचादधत् ॥ १३३ ॥ १३३. स्पष्टः । किं तु तस्मादुर्लभात्सकाशाददुद्रुवदयामष्टा । पयांस्यपि जलानि च न चादधनैव पपौ ॥
१डी अदा.सी डी 'ना सिच् वा ॥. ३ ई दिवा. ४१ ला ५६ पास्तम. ६बी क्षन् । आ. .५ स्मात्स. ८ई नि चा.