________________
५७४
व्याश्रयमहाकाव्ये
उबोषैव दिशो वह्निः क्ष्मा विभायेव कम्पभृत् ।
न ते तथापि विभयांबभूवुर्मेदिनीभुजः ॥ १२३ ॥
१२३. वह्निर्दिश उवोपेव । नृपपराजयसूचकोत्पातोद्भवाद्दिशोभिना दह्यमाना इवालक्ष्यन्तेत्यर्थः : । तथा कम्पभृत्क्ष्मा बिभायेव । तथाप्येवमुत्पातसद्भावेपि ते मेदिनीभुजो न विभयांवभूवुर्बलावलेपान्न भीताः ॥ नेन्द्रायो विभयामास विभयांचकृवान्स किम् |
[दुर्लभराजः ]
मजिह्यांचकाराजौ तैः प्रत्युत चुलुक्यराट् ॥ १२४ ॥
१२४. स्पष्टः । किं तु तैर्नृपैः सहाजौ रणे सति प्रत्युत प्रजिह्वयांचकार किमेभिरतिहीनैः सह युद्धेनेति लज्जितः ॥
जिहाय यद्यपि तथाप्यजगावं बभार सः ।
पुरो दिधक्षोभिरांबभूवेशस्य विभ्रमम् ॥ १२५ ॥
१२५. स दुर्लभो यद्यपि जिहाय तैः सह युद्धेन लज्जितस्तथापि तेषां वृथाबलाभिमानापनोदायाजगावं धनुर्बभाराधारयत् । अजगांवशब्दः सामान्यधनुष्यपि वर्तते । अत एव पुरस्तिस्रः पुरीर्दिधक्षोर्दग्धुमिच्छोरीशस्य शंभोर्विभ्रमं बिभरांबभूव । पुरो दिधक्षुरीशो - जगावं पिनाकं बभार ॥
तत्राप्राविव केपीपुसमिषो जुहुवुर्नृपाः ।
केपि स्वं जुहवांचक्रुर्विदांचक्रुर्न तद्बलम् ॥ १२६ ॥
१२६. केपि नृपास्तत्राञावनाविवेषुसमिषः शरैघान् जुहुवुश्चि
२ बी स्वं जहुवा° ३ ए सी डी जुहुवा.
१ ए नैन्द्रा..
१ गावः श° २ बी सी डी रो दभिक्षु .