________________
[ है० ३.४.४७. ] सप्तमः सर्गः।
५७३ विचारणया युद्धस्य विनत्वान्ने पुर्न च सखीनीहांचक्रिरे बलाद्यवलेपासहायानपि नापेक्षितवन्त इत्यर्थः ।।
खमानछोणुनावाशा नृपाणां तुमुलस्तथा ।
प्रजागरांचकाराशु असनाय यथान्तकः ॥ १२० ॥ १२०. नृपाणां तुमुलो व्याकुलो रवोत्युञ्चस्त्वात्तथा समानर्छ व्याप तथाशा दिशस्तथोणुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्र प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुल. स्वरेण हि सुप्तोकस्मादेव जागर्ति ॥
अलक्ष्मीर्जागरामास न जागरांबभूव धीः ।
यत्तं जजागरुजेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोनित्याभिसंबन्धात्तत्तेषामलक्ष्मीर्जागरामास । धीवुद्धिन जागरांबभूव । तस्याति. शक्तत्वेन केनाप्यजेयत्वात् ॥
समीधेग्मिर्यथा यद्वदिन्धाचक्रे च वाडवः । ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वञ्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्वं जगदोषांचकार नु ददाहेव ॥
१ सीटी मिधाच.
१बी सी डी मिर्धाच. २ डी
। य. ३५ बी वाच'.