________________
५७२ व्याश्रयमहाकाव्ये
[दुर्लभराजः] स्वस्रोर्दासीर्दयांचक्रे दयामास च दासकान् ।
दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ ११६. स्पष्टः । परं स्वस्रोभगिन्योर्दयांचके ददौ । स महेन्द्रः । भाजलं जलमवधीकृत्यान्वयामास चानुययौ ॥
दुर्लभोयांबभूवाथान्वयांचवे च नागराद ।
वाटीषु नासांचकाते नाप्सु चासांबभूवतुः ॥ ११७ ॥ ११७. स्पष्टः । किं तु।अयांबभूव ययौ। अन्वयांचके चानुययौ। तथात्यौत्सुक्यगमनेन वाटीष्वमात्याद्युपवनेषु नासांचक्राते दर्शनकोतुकाम स्थितौ ॥
आसामासुर्वरीतुं तां ये कासांचक्रिरेपि च । तेस्थुः कुधाग्रे तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८॥ ५१८. ते नृपाः क्रुधास्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दु. लभः कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमा. सामासुः स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वादुर्लभं प्रति विरुद्धानि वचांस्यूचुश्च ॥
कासांबभूवुस्ते दात्समीहामामुराहवम् । ईहांबभूवुर्नामात्यानचेहांचक्रिरे सखीन् ॥११९ ॥ १५९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दोत्स्वबलोचवले. पादाहवं युद्धं समीहामासुरीषुः । अत एवामात्यानेहांबभूवुर्युतायुक्त१बी आशामा'. ११ ने वा'. २९ काचिसि. ३१ लाव. ४ई ससमी'.