________________
[है ० ३.४.४६] सप्तमः सर्गः ।
५७१ चकासांचक्रतुस्तौ च चकासामासतुश्च ते ।
तेपामुद्वाहहपेण स चकासांबभूव च ॥ ११४ ॥ ११४. स्पष्टः । किं तु तौ वरौ चकासांचक्रतुग्नुरूपवधूसंयोगेन रेजतुस्ते च वध्वौ च । तेषां वधूवराणाम् । स महेन्द्रः ॥
महेन्द्रः स्वांचकारानु यथावद्विससर्ज तौ । स्वमुक्षांपचकारेवामृतस्तत्परिरम्भणात् ॥ ११५ ॥ ११५. महेन्द्रस्तौ वरौ स्वांचकार स्वमिवाचचार वाल्लभ्यातिशयेनात्मानमिवाज्ञासीदित्यर्थः । एके तु कर्तुः संबन्धिन उपमानाद्वितीयान्तालिप्क्यकाविच्छन्ति तन्मतेनात्र कर्तुः संबन्धिन उपमानाद्वितीयान्तात्स्वालिम् । अनु पश्चाद्यथावद्दानसन्मानादिविसर्जनविध्यनतिक्रमेण विससर्ज । तथा तत्परिरम्भणीद्वरयोराश्लेषादमृतैः स्वमात्मानमुक्षांप्रचकारेव सुखातिरेकात्सिपेचेव । अथ च यो महेन्द्रो महाशक्रः स स्वममृतेरुक्षतीत्युक्तिलेश: ॥
चकासांचक्रतुः । चकासांबभूव । चकोसामासतुः । अत्र "धातोरने" [४६] इत्यादिना परोक्षायाः स्थान आम् । आमन्ताव परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते ॥ कचित्तु प्रत्ययान्तादेकखरादपीच्छति । स्वांचकार । भनुग्रहणं विपर्यासव्यवहितनिवृत्यर्थम् । तेन चकार चकासाम् । ईहां देवदत्त. भके । इत्यादि न स्यादित्यन्वित्यनेनासूचि । उपसर्गस्य तु क्रियाविशेषेकत्वाब. वधायकत्वं नास्ति । तेनोक्षांप्रचकार । इत्यादि स्थादेव ॥
१बी स्तौ तु चका. २ए मुदह'.
१सीडी गाइयो . २ई कासमा'. ३ वी बित्म'. ४५ षत्वा'.