________________
५६६
व्याश्रयमहाकाव्ये
गहने गहनायन्ते न रोमन्थायितेणके ।
व्याधा अप्याज्ञया यस्य विन्ध्येशे रमसेत्र किम् ।। १०४ ।।
१०४. अत्र विन्ध्येो किं रमसे । यस्याज्ञया हेतुना व्याधा अपि मृगयाजीविनोपि गहने बने न गहनायन्ते गहनाय मृगादिवधाय पापकर्मणे न क्रामन्ति । अत एव किंभूते गहने । रोमन्धायिता मृत्युभयाभावेन सुखितत्वाद्रोमन्यमभ्यवहृतं द्रव्यमुदीर्य चर्वितवन्त एणा मृगा यंत्र तस्मिन् । एतेने तस्यातिधार्मिकत्वोक्तिः ॥
पटपटोयतः । लोहितायत् । चर्मायतः । इत्यत्र "डा" [३०] इत्यादिना पित्य ॥
कष्टायमानः । कक्षायते । कृच्छ्रायते । सत्रायते । गहनयन्ते । अत्र “कष्ट"
1
[३१] इत्यादिना क्यरू ॥
रोमन्थायित । इत्यत्र "रोमन्थाद् ” [३२] इत्यादिना क्यङ् ॥
[दुर्लभराजः ]
फेनायन्ते बाप्पायन्ते चोष्मायन्ते च यद्विषः ।
धूमा यितेा बुढोढुं किमन्धेत्र सुखायसे ।। १०५ ।।
१०५. अग्नौ विवाहानिकारिकावहौ धूमायिते यवादिक्षेपेण धूममुद्वमति सत्यन्धेन्ध्रदेशाधिपे विषय उद्वोढुं किं सुखायसे सुखमनुभवसि । यद्विषः फेनायन्ते बाष्पायन्ते चोष्मायन्ते च युद्धादिना - त्यन्तं खेदितत्वात्फेनान्मुखे फेनबुद्बुदान्बाष्पांश्च पराभवोत्थानि नेत्रवारीयूँष्मणश्च संतप्तोच्छ्रासानुद्वमन्ति ॥
१ वाय.
१ सी डी यत्रास्मि. ४ ए बी सी डी 'नायते.
२ बी सी डी ई
न यस्या'. ३ बी "यति:. ५ सी डी न्ते यु. ६ सी डी 'भ्यूष्माण .