________________
[ ४० ३.४.३५. ]
सममः सर्गः ।
श्रीनं दुःखायते यत्र वाण्या वैरायते न च । शब्दायितयशःशङ्खः सोयं श्रीगुर्जरेश्वरः ॥ १०६ ॥
१०६. सोयं प्रत्यक्षः शब्दायितयशः शङ्खः सशब्दीकृतकीर्तिकम्बुर्गुर्जरेश्वरोस्ति । यत्र श्री राज्यादिलक्ष्मीर्न दुःखायते न्यायोत्साहादिगुणैरस्मिन्सुखेन सदा वासित्वान्न दुःखमनुभवति । न च नापि वाण्या सह वैरायेते वैरं करोति । स्वभावान्मिथो विरुद्वे अपि श्रीवाण्यौ विरोधत्यागेन यत्र तिष्ठत इत्यर्थः । अनेन च यदि त्वममुं वृणोषि तदा त्वमपि श्रीरिवात्र न दुःखायसे नापि सपत्नीभिः सह वैरायसे तस्मादमुं वृणीष्वेति दुर्लभदेवी ज्ञापिता ॥
फेनायन्ते । ऊष्मायन्ते । बाप्यायन्ते । धूर्मोयिते । इत्यत्र “फेनोष्म"
५६७
[३३] इत्यादिना क्यङ् ॥
सुखायसे । दुःखायते । अत्र “सुखादेः” [ ३४ ] इत्यादिना क्यड् ॥ शब्दाति । वैरायते । अत्र “शब्दादेः कृतौ वा " [३५] इति वा क्यङ् ॥ नमस्यन्वरिवस्यंश्चाचित्रीयत तपस्यताम् ।
यश्च दुर्लभराजं तं नाम्नामुं किं बुवृर्षसि ।। १०७ ।।
१०७. अमुं नाम्ना दुर्लभराजं किं वुवूर्षसि । यश्व । च: पूर्ववाक्यार्थापेक्षया समुचये । नमस्यन्नमस्कुर्वन्वरिवस्यंश्च वरिवः कुर्वन्सेवमानश्च संस्तपस्यतां तपः कुर्वतां कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् । तपोधनानामचित्रीयताहो राजाधिराजस्याप्यस्य कीदृग्विनय इत्याश्चर्यमकरोत् । नाम्ना दुर्लभमिति नामनिर्देशेन दुर्लभदेवीदं ज्ञापिता
१ सी डी श्रीगुज..
१ ए 'सितत्वा २ डी यो ३डी बाण्योर्विरो ४ सी 'भावते. डी' मायन्ते वे'.