________________
५५६
व्याश्रयमहाकाव्ये
[ दुर्लभराजः ]
अटाट्यमाना दुर्लभादिदृक्षया भृशं पुनः पुनर्वा यान्ती तथारार्यमाणैरहमहमिकया दुर्लभदर्शनाय भृशं पुनः पुनर्वा गच्छद्भिर्लेौकैरर्दिता संमर्देन पीडिता स्वकृशोदरस्तनदर्शनेन राज्ञो रागोत्पादनायोदरस्तनपिधायकं वस्त्रं लोकसंमर्दवशात्पतन्नारक्षदित्यर्थः ॥
अशाश्यमानं मोमूत्र्यमाणं काप्युज्झितुं शिशुम् ।
असोमूत्र्यत सोमूच्यमाने तस्यागमोत्सवे ।। ८५ ।।
८५. तस्य दुर्लभस्यागमोत्सवे सोसूच्यमाने नान्दीतूर्यनिर्घोषा - दिनाभीक्ष्णं भृशं वा ज्ञाप्यमाने दुर्लभदर्शनेत्युत्सुकत्वात्कापि शिशुमुज्झितुमसोसूज्यते प्रायतत । यतोशाश्यमानं भृशमभीक्ष्णं वा भुञ्जानं मोमूत्रयमाणं भृशमभीक्ष्णं वा मूत्रयन्तम् ॥
दृशौ प्रोर्णोन्यमानां नीरङ्गीं काप्युदक्षिपत् । चङ्क्रम्यमाणा जङ्गम्यमानां चाग्रेभ्यतर्जयत् ॥ ८६ ॥
८६. कापि कुलाङ्गना दृशौ प्रोर्णोनूयमानां भृशमभीक्ष्णं वाच्छादयन्तीं नीरङ्गीं मुखाच्छादकवस्त्राभ्वलमुदृक्षिपद्दुर्लभावलोकनविघ्नस्वादूर्ध्वं चिक्षेप । तथा चङ्क्रम्यमाणा कुटिलं कामन्त्य पुरो अङ्गम्यमानां कुटिलं गच्छन्तीं स्त्रीमभ्यतर्जयश्च ॥
कण्डूयन्ती । महीयमाना । इत्यत्र " धातोः " [ ८ ] इत्यादिना यक् ॥ खालस्यमाना । इत्यत्र " व्यञ्जनादेः " [९] इत्यादिना य ॥ पक्षे । भृशं पुनः पुनर्वा लसन्ती ॥ व्यञ्जनादेरिति किम् । भृशमैक्षत ॥ एकस्वरादिति
डी मूत्रमा.
१ सी डी 'नव'. २ ए बी सी ई त प्रयेते । य