SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ [हे. ३.४.११) सप्तमः सर्गः। किम् । भृशं चकासतम् ॥ केचिजागर्तेरिरछन्ति । जाजाग्रीयमाण ॥ सर्वसाबातो. रायादिप्रत्ययरहितात्केचिदिच्छन्ति । आवाव्यत । दादरिद्यमीण ॥ अटाट्यमाना । अरार्यमाणैः । असोसून्यत । मोमूत्र्यमाणम् । सोसूच्यमाने । अशाश्यमानम् । प्रोर्णोनूयमानाम् । अत्र "अव्यति" [१०] इस्यादिना यङ् ॥ चम्यमाणा । जङ्गम्यमानाम् । अत्र “गत्यर्धाकुटिले" [1] इति या ॥ दृशा जेगिल्यमानेव तं लावण्यसुधामयम् । सासद्यमाना कामेन काप्यलोलुप्यत त्रपाम् ॥ ८७॥ ८७. कापि कामिनी त्रपामतिसानुरागदृष्टिपरपुरुषालोकोत्थल. जामलोलुप्यतात्यन्तं विलोपाद्गर्हितं चिच्छेद । कीहक्सती । कामेन सासद्यमाना गर्हितं सद्यमाना निर्दयं पीड्यमानेत्यर्थः । अत एव लावण्यमेवाप्यायकत्वात्सुधा सा प्रकृता यत्र तं लावण्यसुधामयं केव. लसौन्दर्यघटितं तं दुर्लभं दृशा जेगिल्यमानेव सानुरागं निरन्तरं विलोकनाद्गर्हितं गिलन्तीव । यापि कामेने भोजनाभिलाषेण सासयमाना सती स्थूलंकवलाहारेण निजेगिल्यमाना स्यात्सापि "आहारे व्यवहारे च त्यकलेजः सदा भवेत्" इति वचनाद्वहुभक्षणोत्थां त्रपा लुम्पति ।। काराचञ्चूर्यताजञ्जभ्यताजञ्जप्यतापि च । दन्दश्यमाना दन्दह्यमाना नु तदवीक्षणे ॥ ८८ ॥ ८८. कापि कामिन्यचञ्चर्यत तदर्शनौत्सुक्येन स्वाभाविकलीलागतित्यागेन शीघ्रगत्याश्रयणाद्गर्हितमगमत् । अजनभ्यत च कामो १बी सी डी न्ति । अवा. २ बी सी डी °माणा ॥. ३ सासद्यमानेत्यारभ्य कामेनेत्यन्तो ग्रन्यांश ई संशके पुस्तके न दृश्यते. ४ डी लकेव'. ५ एसी डी लज्जा स. ६ बीमत ।.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy