________________
व्याश्रयमहाकाव्ये
[दुर्लभराजः ]
गतिविघ्नत्वादनिन्दत् । कीदृक्सती । शचीकामयितुरिन्द्रस्य सौन्दर्यादिसंपदा तुल्यं तं दुर्लभं कमित्रीच्छन्ती । अत एव तमेव ऋतीयित्री दर्शनाय गच्छन्ती ॥
५५४
अतितिक्षत न स्थानं विचिकित्सुः स्वजीविते । अचिकित्स्ये तदा कापि शीशांसति शरान्स्मरे ॥ ८० ॥
८०. तदाचिकित्स्यै दुर्लभदर्शनेन प्रकर्षप्राप्तत्वात्प्रतिकर्तुमशक्ये स्मरे शरान् शीशांसत्युत्तेनयति सति कापि कामिनी स्वजीविते विचिकित्सुः संशयाना सती स्थानं नातितिक्षत स्थातुं नाशक्नोत् । दुर्लभदर्शनायानवरतं तेन सर्वे ययावित्यर्थः ॥
श्रीमांसमानां दीदांसमानां च तिलकं सखीम् । atreennai मेने काप्यस्य दर्शनविघ्नतः ॥ ८१ ॥
८१. कापि कामिन्यस्य दुर्लभस्य दर्शनविनतो हेतोः सखीं बीभत्समानां विरूपां प्रतिकूलां मेने । कीदृशीं सतीम् । तिलकं मीमांसमानां भव्यमभव्यं वेति विचारयन्तीं दीदांसमानां च वक्रत्वापनयनेन ऋजूकुर्वतीं च ॥
कामयमानः । अत्र “कमेर्णिङ्” [२] इति णिङ् ॥
ऋतीयमानः । अत्र "ऋतेयः” [३] इति ङीयः ॥
गोपायिता गोप्ता । धूपायितुः धूपिता । विच्छायितारम् अनुविच्छिनी । पर्णायितु पणित्री । पनावित्र्याम् पनित्री । कामयितुः कमित्री । ऋतीयित्री भन्वर्तितारम् । अत्र "अशवि ते वा" [४] इति बायादयः ॥
१ डी भं कामि . २ ए बी तीवत्री ३ सी डी 'त्स्ये तदा दु. ४ डी "संय ५ बी डी ई कुर्वन्ती च. ६ डी णायतु. ७ बी °तीयत्री. सी "तीयती म. डी तीवन्ती भ