SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५५३ (है० ३.४.१.] सप्तमः सर्गः । तां रूपाद्यतिशयेन प्रसिद्धां कन्यां महेन्द्रस्वसारं कामयमानोभिलषन् ॥ दृष्ट्वा विच्छायितारं तं पणायित्पथे तदा । अनुविच्छिन्यभूत्काचित्पणित्री नेष्टवस्तुनः ॥ ७७ ॥ ७७. तदा पुरप्रवेशकाले काचिन्नायिका तद्रूपाक्षिप्तत्वादनुविच्छित्री दुर्लभस्य पश्चौद्यान्ती सतीष्टवस्तुनः पणित्री व्यवही नाभूत् । किं कृत्वा । पर्णायितृपथे वणिक्पथे हट्टमार्गे विच्छायितारं गच्छन्तं तं दुर्लभं दृष्ट्वा ॥ पुरधूपायितुर्जेता धूपिता नः स्मरो ह्ययम् । इत्यमेनं पनायियो पनिव्यासीन का तदा ॥ ७८॥ ७८.एनं दुर्लभं पनायित्र्यां स्तुवत्यां सत्यामर्थात्कस्यां चित्कामिन्यां का कामिन्येनं पनित्री स्तोत्री नासीत् । कथं पनायित्र्यामित्याह । अयं प्रत्यक्षो दुर्लभो हि स्फुटं निश्चितं पुरधूपायितुत्रिपुरदाहकस्य॑ हरस्य जेता स्मरोस्ति । यतः किंभूतः। नोस्माकं धूपिता रूपातिशयेनोत्कण्ठारणरणकादिविधानात्संतापकोस्माकं सन्तापकत्वादयं नूनं स्वारि हर जित्वा स्वमूर्तिधारी कामो वर्तत इत्यर्थ इत्थम् ॥ शचीकामयितुस्तुल्यं कमित्री कापि तं तदा । अन्वर्तितारं खं बालमृतीयित्यजुगुप्सत ॥ ७९ ॥ ७९. तदा प्रवेशकाले काप्यन्वर्तितारमनुयान्तं वं बालमजुगुप्सत १ सी डी गायत'. २ डी ल्यं कामि . १ए 'दुहितरं. २ सी डी वादयन्ती'. ३ सी पणयित्री. ४ सी डी णायतृ. ५ बी सी डी ई न्तं दु. ६ डी 'स्य . .डी ता स्मा'. सी हरि जि. ९ई वा मू. १०डी यर्थः ।।. 9 .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy