________________
[है. ३.३.१०१.] सप्तमः सर्गः।
५४९. अभिक्षिपन्तो हस्ताग्रं गन्धेभाः प्रवहन्मदाः।
सैन्येस्यापरिमृष्यन्तोन्योन्यं पर्यवहपृथक् ॥ ६८ ॥ ६८. अस्य दुर्लभस्य सैन्ये गन्धेभा गन्धप्रधाना गजा हस्तानं शुण्डाग्रभागमभिक्षिपन्त इतस्ततोभिमतं प्रेरयन्तः सन्तः पृथग्भिन्नाः पर्यवहन्समन्ताजग्मुः । यतोन्योन्यमपरिमृष्यन्तोसहमानाः। एतदपि कुत इत्याह । यतः प्रवहन्मदाः ॥ पराकुर्वन् । अनुकुर्वन् । इत्यत्र "परा" [१०] इत्यादिना परमै ॥
प्रतिक्षिपन् । अभिक्षिपन्तः । अतिक्षिपन् । इत्यत्र "प्रत्यभि" [१०२] १. त्यादिना परस्मै ।
प्रवहत् । इत्यत्र "प्रादहः" [१०] इति परस्मै ।। परिमृष्यन्तः । पर्यवहन् । इत्यत्र “परेर्मुषश्च" [१०४] इति परस्मै ॥
ययावविरमन्पथ्यारमद्भिर्नर्मबन्धुभिः ।
समं परिरमन्नन्योदन्तादुपरमन्त्रयम् ।। ६९ ॥ ६९. अयं दुर्लभ: पैथि ययौ । कीडक्सन् । अविरमन्ननवरतं गच्छंस्तथारमद्भिः क्रीडद्भिर्नर्मबन्धुभिर्नर्मसचिवैः समं परिरमन्परिखेलंस्तथान्योदन्तात्स्वयंवरनायिकोदन्तादन्यस्या वार्ताया उपरमनिवर्तमानः स्वयंवरकन्यकोदन्तमेव कुर्वन् ।
कापि सोश्वमुपारंस्तेभेनारोहयत कचित् । काप्यासयन् रथे मित्राण्यकारयत सत्कथाः ॥७॥
१५ न्येस्य प.
१५ प्रावृह. २५ परिय'. ३..मस. ४बी डी 'नायको.