________________
५४८
द्याश्रयमहाकाव्ये
[दुर्लभराजः
कृष्णं मिथ्याकारयमाणा । इस्यत्र "मिथ्या" [१५] इत्यादिनारमने ॥
पर्यमोहयत श्रियम् । मायामयमानोर्थिनः । मायासयत श्रियम् । अपाय. यतामृतम् । अधापयत मधूनि । वादयमानोर्थिनः । अवासयत गाम् । कूर्म पमयमानाम् । प्रतापेनादयांचके । लोकं रोचयमानः । के नानर्तयत । इत्यत्र "परिमुहा" [९४] इत्यादिनारमने ॥ अदेनेच्छन्त्येके । खड्ङ्गेनादयत् ॥
ईजे । चक्रे । अत्र "ईगितः" [९५] इत्यात्मने ॥ फलवतीत्येव । साधूनय. जत् । केचित्वीगितो धातोर्णिगर्थ एव प्रेषणाध्येषणविशेषे प्रतिविधाननानि वर्तमानादात्मनेपदमिच्छन्ति । ग्यवत्त । ग्यधापयतेत्यर्थः ॥ तत्वं जानानः । अत्र "शोनुपसर्गात्" [९६] इत्यात्मने ॥ भनुपसर्गादिति किम् । तत्प्रजानतः॥
एकान्तमपावदिष्ट । इत्यत्र "वदोपात्" [१७] इत्यारमने ॥ समयछत शुद्धताम् । श्रियमुगच्छमानाः । आयुरायच्छमानाः। अत्र "समुद् [१८] इत्यादिनात्मने ॥ अनन्य इति किम् । कथामुद्येमुः।
स्वान् द्विषः परिमोहयमानः । स्वमात्मानं पर्यमोहयन् । इत्यत्र "पदान्तर. गम्ये वा" [९९] इति वात्मने । भवन् । इत्यत्र “शेषात्परस्मै" [१००] इति परस्मैपदम् ॥
मास्थितेन्द्र पराकुर्वन्ननुकुर्वन्स पूर्वजान् ।
सानुजोतिक्षिपन्सेनां तडूल्याकं प्रतिक्षिपन् ॥ ६७॥ ६७. स दुर्लभः सानुजो नागराजसहितः प्रास्थित । कीहक्सन् । सेनामतिक्षिपन् । गमनायात्यन्तं प्रेरयन्नत एवाविबाहुल्याच तद्भूल्या सेनारेणुनाकं प्रतिक्षिपन्नाच्छादयन्नित्यर्थः । तथेन्द्र पराकुर्वन्महा न्यकुर्वन्नत एव पूर्वजान्मूलराजादीननुकुर्वन् ॥
१५ लोकान्तरों . २ सी डी विशेषणप्र. ३ ए 'नेपदम् । उप. ४ ए वतन्त्र