________________
है. ३.३.९१)
सप्तमः सर्गः।
६४. स दुर्लभो वसतिमार्गप्रकाशकसुगृहीतनामधेयश्रीजिनेश्वरसूरिभिजैनधर्मे प्रतिबोधितत्वात्तत्त्वम् । जातावेकवचनम् । जीवाजी. वपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्यानि नव तत्त्वानि जानानो यथावस्थितान्यवबुध्यमान: संस्तत्तत्त्वं प्रजानत: साधूने जैनमुनीनयज. त्सत्कारसन्माननादिनाचितवान् । अत एवैकान्तमेकान्तवादं बौद्धा. दिसिद्धान्तपावदिष्टानेकान्तवादित्वानिराकार्षीत् । अत एव च शुद्धतां पापमलापनोदेन निर्मलतां समयच्छतात्मना सह संबद्धीचक्रे ।।
आयुरायच्छमाना उद्यच्छमानाः श्रियं नृपाः ।
अस्सोयेमुः कथां खं हि नात्मानं पर्यमोहयन् ॥६५॥ ६५. नृपा अस्य दुर्लभस्य कथामवदातवर्णनाग्रन्थमुद्येमुः कथाग्रन्थ उद्यमं चक्रुरित्यर्थः । यत आयुरायच्छमाना दुर्लभावर्जनयाँ जीवितव्य दीर्घाकुर्वन्तः । वथा श्रियमुद्यच्छमाना राज्यलक्ष्मीविषयमुद्यम कुर्वन्तो जीवितव्यं च श्रियं च वाञ्छन्त इत्यर्थः । अत एव स्वमात्मीयमात्मानं हि स्फुटं न पर्यमोहयन्न विचेतनीचक्रुरात्मानमजाननित्यर्थः । यद्वा । सर्वस्खापहाराद्युत्थाधिव्याधिपीडाया अभावेन न मूर्छयामासुः ।।
परिमोहयमानः स्वान् द्विषोये दोष्मतां भवन् ।
राजाह्नायि महेन्द्रेण स्वमुः सोथ स्वयंवरे ॥ ६६ ॥ ६६. अथ स दुर्लभः स्वसुः स्वयंवरे महेन्द्रेण राज्ञा मरुदेशेशेनाहाय्याकारितः । कीदृक् । दोष्मतामने धुरि भवन्वर्तमानोत एव स्वाद्विषः परिमोहयमानस्तीत्रप्रहारादिपीडया मूर्छयन् ॥
१ सी शम. २ सी मिर्जिन. ३ सी जी. ४ सी म् नि'. ५ बी सी डीई न्माना. ६ सी डी या दी. . बी सीडीई 'भ्य मि.