SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये दुर्लभराजः] स आयापयमानो वादयमानोर्थिनः किल । मधून्यधापयत किं किमपाययतामृतम् ॥ ६१ ॥ ६१. स दुर्लभः । किलेति सत्ये । आर्थिनो याचकान्कि मधून्यधा. पयत पाययामास किममृतं सुधामपाययत । कीडक्सन् । अर्थिन आयामयमानः । पूर्ववत्कर्मकर्तृविवक्षयाकर्मकाद्धातोर्णिगि महादानेन वर्धयंस्तथा वादयमानः प्रियमालपन् । कूर्म दमयमानां गामवासयत दोष्ण्यसौ । प्रतापेनादयाचक्रे द्विषः खड्न चादयत् ॥ ६२ ॥ ६२. असौ दुर्लभः प्रतापेन की द्विषो दैत्याद्यन्यायिशत्रूनादयांचक्रे खड्नेन च की द्विष आदयत् । कानपि द्विषः प्रतापेनैव क्षयं नीतवान्कानपि युद्धेनेत्यर्थः । अत एव कूर्म कमठरूपिणं विष्णुं दमयमानां गुरुत्वात्खेदयन्तीं गां पृथ्वीं दोष्णि भुजादण्डेवासयंत स्थापितवान् । सर्वशत्रूच्छेदेनाखिलपृथ्वीं ववशीचकारेत्यर्थः। लोकं रोचयमानोसौ नानर्तयत के मुदा । चके धर्म मुरानीजे व्यधत्तायतनानि च ॥६३ ॥ ६३. असौ दुर्लभो धर्म दानादिकं चक्रे । तया सुरानहदादिदेवानीजे पूजितवानायतनानि प्रासादान् व्यधत्त च कारितवांश्च । अत एव लोकं रोचयमानः प्रीणयन् के मुदा हर्षेण नानर्तयत ॥ स साधूनयजत्तत्त्वं जानानस्तत्मजानतः । अपावदिष्ट चैकान्तं समयच्छत शुद्धताम् ॥ ६४॥ १वी वक्षाया'. २ एमडा. १६३०. ४ ५ °य स्था'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy