________________
[ है. ३.३.१२.) सप्तमः सर्गः।
५४५ ___ ५९. अथ चामुण्डराजस्यात्मसाधनानन्तरं दुर्लभो निर्भीषानपि निर्भयानप्यरीनभीषयत भीतवतः प्रयुक्तवान् । यद्यस्मात्स उच्चकैः शक्रमप्यभापयत । यतो भाप्यत आभ्यां भापनौ भुजौ यस्य सः ।।
अभीषयत । इत्यत्र "बिभेतेर्भाच" [९२] इत्यात्मने । अस्य च भीषादेवाः॥ पक्षे । अभापयत । इत्यत्रान्तस्थाच्चाकर्तर्यपि । यद्यप्यत्र परमार्थतो भापनभु. जाभ्यां कृत्वा भय तथाप्यवयवावयविनोरभेदेन भुजावपि दुर्लभ एवेति प्रयो. कुरेव स्वार्थ इत्यात्वं स्यात् ॥ अकर्तर्यपीत्येव । निर्भीषान् । भापन । अत्र न करणाद्यं किं तु करणाद्धापनमिति प्रयोक्तुः स्वार्थ एवाकर्तर्यप्याकारः ॥
मिथ्याकारयमाणास्य कीर्तिः कृष्णं हिमोज्वला ।
पर्यमोहयतात्यन्तमायासयत च श्रियम् ॥ ६०॥ ६०. अस्य दुर्लभस्य हिमोज्वला कीर्तिः श्रियं कृष्णभार्यामत्यन्त पर्यमोहयत कृष्णस्यानुपर्लक्ष्यत्वेन ब्यपगमाद्याशङ्कया परिमुह्यन्ती मू
र्छन्तीं प्रायुतात्यन्तमायासयताखेदयच्च । यतः कृष्णवर्णत्वात्कृष्णं विष्णुं मिध्याकारयमाणा कृष्णं मिथ्या कूटं करोत्युञ्चारयति लोकस्तं प्रयुखाना कृष्णवर्णापहवाल्लोकेन कृष्णमन्वर्थाभावरूपदोषदुष्टमसकृत्पाठयन्तीत्यर्थः । अत्र च व्याख्यानेलोकेनेति ज्ञेयम् । यद्वा । कीर्तिः कृष्णं कृष्णवर्णापहवेन मिथ्या कूटं करोति विदधाति प्रयोकैवं विवक्षते नेयं कृष्णं मिथ्याकरोति किं तु कृष्णः स्वयमेव मिथ्याक्रियते मिथ्याभवति तं कीर्तिः प्रयुञ्जाना । एवं विवक्षायां णिगि सत्यपि मिथ्याकारयमाणासन्मिथ्याकुर्वतीत्यर्थः । तात्पर्येण कृष्णं श्वे. तयन्ती ॥
१ सी डी जस्य चात्म'. २ ए सी भीष्वा" . ३ सी डी णत्वस्वा. ४बी लक्षवे'. ५ई. ये मि. ६ डी कुर्वन्तीत्य,