________________
व्याश्रयमहाकाव्ये [दुर्लभराजः। ७०. म दुर्लभः कापि कस्मिन्नपि स्थानेश्वमुपारंस्त । अत्र रमिरन्त. भूतण्यर्थः सकर्मकः प्रात्युपसर्जनो वा सकर्मकः । आरुह्य गतिपञ्चकेनाखे. लयत् । कचिच्चेभेन कीरोहयत । आरोहदिभं सः । न्यग्भवन्तं न्यगभावयेत् । स एवं विवक्षितवान् । नाहमारोहं किं तु स्वयमेवारुप्रतेभः स्वयमेव न्यगभूदित्यर्थः । ततः स्वयमेवे वारूढं न्यग्भूतं स प्रायुत णिग् । “धाकर्मणाम्” (२.२.५] इत्यादिना कर्तुर्वा कर्मत्वात् । इभेनेमं वा स आरोहयत्पुनः । स एवं विवक्षितवान्नाहमारोहयं किं विभः स्वयमेवारोहयत न्यगभूदित्यर्थ इति पञ्चम्यवस्थानन्तरं पुनरपि स्वयमेवारोहयमाणमिभं स प्रायुत । पुनर्णिम् । न्यगभावयदित्यर्थः । कापि कस्मिंश्च प्रदेशे मित्राणि रथ आसयनुपवेशयन्सन्सकथाः साश्चर्याणि पूर्वपुरुषावदाववर्णनान्यकारयत ॥
खेदं शोषयमाणोभूच्चलयन्वीरुधस्तदा । पताकाः कम्पयन्वायुर्मुदे मध्विव भोजयन् ॥ ७१॥ ७१. तदा दुर्लभस्य गमनकाले वायुर्मुदेभूत् । कीहक्सन् । स्वेदं श्रमसंतापोत्थं धर्म शैत्याच्छोषयमाणस्तथा वीरुधो लताश्वलयन् । एतेन सौरभोक्तिः । तथा पताका रथादिस्था वैजयन्तीम॑दुत्वात्कम्पयअतश्चात्यन्तं सुखहेतुत्वान्मधु भोजयन्निव । एतेनास्य कार्यसिद्धिसूचकं शुभशकुनमुक्तम् ॥
तस्याभ्युदस्थु वारानाशयन्तो मृगार्भकान् । बोधयन्तोध्यापयन्तो बर्दून् ग्रन्थान्वनर्षयः॥ ७२ ॥ ७२. वनर्षयस्तापसास्तस्य दुर्लभस्याभ्युदस्थुराश्रमगुरुत्वेनाभिमु१ टीटूनर्यान्व. १सी डी ः प्रा. २६ यन्स १.३ सी मेवा'. ४बी ई चारू', ५ सी डीपमाष.