________________
है. ३.३...] सप्तमः सर्गः।
.५४१ विप्रावदन्त । विप्रावदन् । इत्यत्र "विवादे वा" [४०] इति वात्मने । मिथोनुवदमानाः । अत्र "अनोः" [८] इत्यादिनात्मने ॥ कर्मण्यसतीति किम् । वचोन्ववदन् ।
राजपुत्रस्य जानानोपतस्थे जनतोन्मुखी।
संगच्छमाना संपृच्छमाना संशुश्रुवे तथा ॥५१॥ ५१. जनता प्रामादिजनौघ उन्मुखी सैन्यसंमुखोपतस्थे डुढौके । यतो राजपुत्रस्य वल्लभस्य जानाना राजपुत्रेण कृत्वा प्रवर्तमाना राजपुत्रे रक्का सेनान्यमपि राजपुत्रतयाध्यवस्यन्तीवेत्यर्थः । ततश्च तथा संशुश्रुवे यथा वृत्तमाकर्णितवती । यतः संगच्छमाना सैन्यैः सह मिलन्ती संपृच्छमाना सैन्यान्प्रश्रयन्ती च ॥
संविदानां तथा संखरमाणां विनिवार्य ताम् ।
सैन्या धैर्ये समिग्राणाः समृच्छन्ते स्म पचने ॥५२॥ ५२. तथा कुमारस्य तं मृत्युप्रकारं संविदानां जानतीमत एव संखरमाणां शोकेन विलपन्ती तां जनता विनिवार्य सैन्या: पत्तने समृच्छन्ते स्म प्राप्ताः । ऋच्छेरतेर्वा रूपमिदम् । किंभूताः सन्ता । धैर्ये समियाणाः संगच्छमानाः ॥
राज्ञि संपश्यमानेय शोकपूर्णा विचक्रिरे । ते स्वरानविकुर्वाणा धैर्यात्तत्सर्वमूचिरे ॥ ५३ ।। ५३. अथ राज्ञि चामुण्डराजे संपश्यमाने सैन्याभिमुखं पश्यति ते सैन्याः शोकपूर्णाः सन्तो विचक्रिरे । आक्रन्दनादिकचेष्टाभिनिफलमचेष्टन्तेत्यर्थः। ततश्च धैर्याञ्चित्तावष्टम्भमाश्रित्य खरानविकुर्वाणा नानाविधान् शब्दानकुर्वाणास्तद्यथावृत्तं सर्वमूचिरे । १५ °था शु.