________________
व्याश्रयमहाकाव्ये
[पलभराजा
पदमानः सुहृजने । तत्वेषु वदमानः। परमात्मन्यवदिष्ट। कार्ये विवदमानान्। उपावदत मत्रिणः । उपावदत सेनान्यम् । भत्र "दीतिज्ञान" [८] इत्यादिना दीप्त्यादिषु क्रमेणात्मने ॥
सैन्यैः प्रवदमानैर्हा घिगित्याशु शुकैरिव ।
सेनानीरुल्लल थाटवीं संप्रवदच्छु काम् ॥ ४९ ॥ ४९. अथ सैन्यैः सह सेनानीराश्वटवीमुल्ललझे । किंभूतैः । शोकेन विलापित्वाद् हा धिगिति प्रवदमानैः । कैरिव शुकैरिव । सहोपमेयम । सैन्यशोकाक्रन्दश्रवणेन शोकाक्रान्तत्वाद् हा धिगिति प्रवदमानैः शुकैः सहेत्यर्थः । अत एवं किंभूतामटवीं संप्रवदच्छुकां संभूयविलपच्छुकाम् । एतेन वल्लभविरहे पक्षिणामपि शोक उक्तः ॥
सैन्यैः प्रवदमानैः । इत्यत्र "व्यक" [७९] इत्यादिनारमने ॥ व्यकवाचा. मिति किम् । संप्रवदच्छुकाम् ॥ शुकसारिकादीनामपि व्यर्क वाक्त्वात्सहोक्काविच्छन्त्यन्ये । प्रवदमानैः शुकैः ।।
विप्रावदन्त नामात्या अन्ये विप्रावदन वा।
मिथोनुवदमानास्तु सेनान्योन्ववदन्वचः ॥५०॥ ५०. वल्लभेनोपसान्वितत्वादुपालब्धत्वाचामात्या न विप्रावदन्त मियो वचो निषेधेन युगपद्विरुद्धं नोचुरित्यर्थः । एवं न वा न चान्ये नृपसामन्तादयो विप्रावदन् । तुर्विशेषे । किं तु सेनान्यो दण्डनेतुर्व. चोमात्या अन्ये चान्ववदन् सेनान्या पूर्वमुक्त पश्चादवदन् । प्रमाणीचकुरित्यर्थः । किंभूताः सन्तः । मिथोनुवदमाना मिथ एकसां. मत्येन यथैके वदन्ति तथापरे वदन्त एकैः पूर्वमुक्तेपरे पश्चाददन्तो वेत्यर्थः ॥
१ए काका'. २ सी डी व च किं. ३ ए दीनां न्य. ४ ईकस्वास'. ५ ए वान्ये . ६ सी डी दन्ति । ए.