________________
[t० ३.३.७.] सप्तमः सर्गः। भात्मा तस्मिन्सर्वशे देवेवदिष्ट परमात्मैवाधुना मे शरणमिति तद्वि. षयमुत्साहं वाचाविष्कृतवान् ध्यानेन तत्रोत्सहते स्म वेत्यर्थः । परमास्मानं दध्याविति तात्पर्यम् । कीटक्सन् । कालं कृतान्तमधिकुर्वाणः पूर्वोक्तधर्मध्यानेनाभिभवंस्तेनापराजीयमानो वा शक्तोशक्तो वा तमुपेक्षमाणो वेत्यर्थः । तथा सुहृजने वदमान इन्द्रियोपघाताभावन सम्यग्ज्ञानाच्छोकापनोदायानाकुलसंबोधनाच विक. सितमुखत्वादीप्यमानो वदन्वा वदन्दीप्यमानो वा दीप्यमान एव वेत्यर्थः । तथा तत्त्वेषु परमात्मोक्ते पदार्थेषु वदमानश्च ज्ञात्वा वदन वदितुं जानन्वा वदन्सन् जानन्वा जाननेव वेत्यर्थः ।।
कार्ये विवदमानान्स उपावदत मत्रिणः।
उपावदत सेनान्यमथात्मानमसाधयत् ॥४८॥ ४८. कार्ये सैन्यव्याघोटनादौ राजकृत्ये विवदमानान्मिथ एकसंमत्यभावेन विमतिपूर्वकं विचित्रं भाषमाणान्विविधं मन्यमानान्वा मत्रिणः स वल्लभ उपावदत युष्माकं कुल क्रमागतानां मत्रिणामधुनैवं नानामतिकरणं न युक्तमित्युपसान्त्वयामास । इयन्तं कालं मया मत्पूर्व जैश्च यद्यूयं सर्वा पोषितास्तत्किमधुना विमतिकरणेन राज्यक्षयार्थमित्युपालभत वेत्यर्थः । तथा सेनान्यं सेनापतिमुपावदत यदि त्वं मम स्वामिन उपकारान्स्मरसि तदा त्वया मदीयमृत्युं कुत्राप्यज्ञापयतेदं सैन्य शीघ्रमणहिलपुरे नेयमियद्गजाश्वधनादि मया तुभ्यं प्रसादादत्तमिति रहस्युपालोभयत् । अथानन्तरमात्मानमसाधयत् पण्डितमरणेन दिवं गत इत्यर्थः॥ कालमधिकुर्वाणः । अत्र "अधेः" [७७] इत्यादिनात्मने ।
१बी सी डी ई विस्कृत'. २६ दन्दी. ३५ व. ४६ वा बानवे. ५१. विविध भा. ६ सी डी मदिख.