________________
५३८
व्याश्रयमहाकाव्ये
नान्यदारान्नान्यवादान्ये पवित्राः प्रचक्रिरे | श्रियं तेषु प्रकुर्वाणः श्रेयसां स उपास्कृत || ४६ ॥
२
:
४६. स वल्लभः श्रेयसां पुण्यानामुपास्कृत तेषु गुणान्तरमादधौ तानि विशिष्टतराणि चक्र इत्यर्थः । कीदृक्सन् । ये पवित्रा यमनियमैः पूतात्मानो मुनयोन्यदारान्परस्त्रियो न प्रचक्रिरे न विनिपातमविभाव्य वानभिजग्मुरित्यर्थः । तथा येन्यवादान्परकथा न प्रचक्रिरे न कथयितुमारेभिरे न प्रकर्षेणाकथयन्वेत्यर्थः । तेषु श्रियं प्रकुर्वाणो धर्मार्थ विनियुञ्जानः ॥
[ वलभराजः ]
शिक्षांचक्रे । भत्र “शकः " [७३] इत्यादिनात्मने ॥
मनुबन्धेन । एदिधिषमाणम् ॥ उपपदेन । व्यजिगीषन्त ॥ अर्थविशेषेण । भने चिक्रंसमानम् । अत्र " प्राग्वत्" [७४ ] इत्वात्मने ॥
ईक्षचिकाणः इत्यत्राफलवत्यपि । बिभयचक्रवान् इत्यत्र फलवत्यपि "भामः कृगः " [ ७५ ] इत्यात्मनेपदं स्यान स्याच्चेति विधिप्रतिषेधावतिदिश्येते । यत्र तु पूर्वस्मादुभयं तत्र फलवत्वफलवति चोभयं स्वाद । बिभरांचक्रे । बिभरांचकृवान् ॥
3
कलि मुस्कुर्वाणः । संसारमवचक्रे । पदमुपचक्रे । अन्यदारान प्रचक्रिरे । श्रेयसामुपास्कृत । नान्यवादान्प्रचक्रिरे । श्रियं तेषु प्रकुर्बाणः । अत्र "गन्धन" .[१६] इत्यादिना गन्धनादिषु क्रमेणात्मने ||
स कालमधिकुर्वाणो वदमानः सुहृज्जने ।
तत्त्वेषु वदमानचावदिष्ट परमात्मनि ॥ ४७ ॥
४७. स वल्लभः परमात्मनि परमः क्षीणसकलकर्माशित्वाच्छ्रेष्ठो य
१ ई. 'शिष्टानि च'. २ ई.: । . ३ ई. ति बोम'.