________________
[ है० ३.३.७३.]
सप्तमः सर्गः ।
देवात्सोस्याथ रोगोभूच्छिक्षांचक्रे न कोपि यम् ।
यमेदिधिपमाणं च व्यजिगीषन्त नागदाः ॥ ४३ ॥
४३. अथ दैवाद्विधिवशादस्य वल्लभस्य स रोग: शीतलिकाख्योभूद्यं रोगं कोपि वैद्यादिर्न शिक्षांचक्रे । शरीरान्तर्गतत्वेन न ज्ञातुं शक्नुयामितीच्छति स्मेत्यर्थः । यं च रोगमेदिधिषमाणं विवर्धिषमाणमगदा औषधानि न व्यजिगीषन्त । असाध्यो व्याधिरुत्पन्न इत्यर्थः ॥
१
I
सोने चिक्रंसमानं तमीक्षांचऋाण आत्मना । समाधिं बिभरांच बिभयांचकुवान हि ॥ ४४ ॥
५३७
४४. स वल्लभो न हि बिभयांचकृवान्नैव भीतः । कीदृक्सन् । अङ्गे चित्रसमानं स्फायितुकामं तं रोगमात्मनेक्षांचकोणो बाधावृद्ध्या ज्ञातवान् । किं तर्हि समाधिं चित्तैकाग्र्यं बिभरांचक्रे पोषितवान् । एतेनास्य विद्वत्तोक्ता ॥
बिभरांचकृवान्स्थैर्यमुत्कुर्वाणः कलिं तदा ।
संसारं सोवचक्रेथोपचक्रे योगिनां पदम् ॥ ४५ ॥
४५. तदा स वल्लभः कलिं कलिकालकर्म रागद्वेषादिकं कलैहं बोत्कुर्वाणः परिजिहीर्षया सदोषं प्रतिपादयन्धैर्यं चित्तावष्टम्भं बिभरांचक्रवान्पोषितवान् । अथ तथा संसारं रागद्वेषादिदोषात्मकं भवप्रपश्वमवचक्रे तिरस्कृतवानत एव योगिनां पदमुपचक्रे सिषेवे । योगिनो हि कलिमुत्कुर्वाणा धैर्यं बिभ्रति संसारं चात्रकुर्वते ॥
१ सी. च विजि . डी च वाजि.
१ ए°तिः । यं
६८
२ एकाणा ०. ३ सी डी 'लहमुत्कु