________________
५३६
व्याश्रयमहाकाव्ये
योस्य जिज्ञासते स्मौजोन्वजिज्ञासन्न केपि तम् । तमशुश्रूषमाणानां नाशुश्रूषन्वचोपि हि ॥ ४१ ॥
[ वल्लभराजः ]
४१. यो नृपोस्य वल्लभस्यौजो बलं स्वबलावलेपेन रणकरणाज्जिज्ञासते स्म ज्ञातुमैच्छत्तं नृपं केपि स्वकीयमन्त्रिमित्रादयो नान्वजिज्ञासन्नानुमतिमप्यदित्सन्नित्यर्थः । तथा तं वल्लभमशुश्रूषमाणानां मानात्सेवितुमनिच्छूनां नृपाणां वचोपि । आस्तां मैत्रीविधानादीत्यपेरर्थः । केपि न हि नैवाशुश्रूषन्नीषदपि श्रोतुमैच्छन् । केपीति प्राक्तनमत्रापि योज्यम् ॥
।
1
जयाय मतिशुश्रूषत्यस्मिन्केपि महीभुजः । नादिदृक्षन्त दोःशक्तिमसुमूर्षन्त निम्बजाम् ॥ ४२ ॥
।
४२. अस्मिन्वल्लभे जयाय प्रतिशुश्रूषति प्रतिज्ञां चिकीर्षौ सति न केपि महीभुजो दोः शक्तिमदिदृक्षन्त युद्धेन परीक्षितुमैच्छन् । सर्वोत्कृष्ट बलत्वादनेन सह न केपि युयुधिर इत्यर्थः । किं तु परित्राणाय निम्बजां निम्बजाख्यां सप्रत्ययां लोकप्रसिद्धां देवतामसुरमूर्षन्त स्म - र्तुमैच्छन् ॥
I
जिज्ञासते । अन्न “भननोः सनः " [ ७०] इत्यात्मने || अननोरिति किम् । अन्वजिज्ञासन् ॥
[ ७१] इत्यादिनात्मने ॥ अनाहुतेरिति
099
शुश्रूषमाणानाम् । अत्र "श्रुवः "
किम् । आशुश्रूषन् । प्रतिशुश्रूषति ॥
असुमूर्षन्त । भदिरक्षन्त । अत्र “स्मृदृशः " [७२] इत्यात्मने ॥
१ सी 'दिशन्नि २ ई. न्त । इत्यत्र.