________________
[है• ३.३.६९.] सप्तमः सर्गः ।
५३५ तिष्ठामहे वः । स्वयि तिष्ठते प्रीतिः । अत्र "शीप्सास्थेये" [६४] इत्यात्मने ।
केष्वप्यभयमातस्थे राज्यं समगरिष्ट च ।
कानप्यवागरिष्टेवापजानानः स तेजसा ॥ ३९ ॥ ३९. स वल्लभः केष्वपि भीतेषु राजस्वभयं भयाभावमातस्थे प्रतिज्ञातवान् । तथा केष्वपि निश्छद्माश्रितेषु राज्यं समैगरिष्ट च प्रतिज्ञा. तवांश्च । प्राक्तनं केवपीत्यत्रापि योज्यम् । तथा कानप्यनतानृपाते. जसा प्रतापेनापजानानोपलपन्सनवागरिष्टेव समूलोन्मूलनेन नाम्नोप्युच्छेदाद्स्तवानिव ॥
आतस्थे । अत्र "प्रतिज्ञायाम्" [१५] इत्यात्मने ॥ समगरिष्ट । इत्यत्र "समो गिरः" [१६] इत्यात्मने ॥ भवागरिष्ट । इत्यत्र "भवात्" [६०] इत्यात्मने ॥ अपजानानः । अत्र “निह्नवे ज्ञः" [६८] इत्यात्मने ॥
संजानानास्तादृशं तं संजानन्तो हरेस्तदा ।
जगज्झम्पननानोच्चः प्रत्यजानत भूभुजः॥४०॥ ४०. तदा यात्राकाले तं वल्लभं भूभुजो जगज्झम्पननाम्ना जगतोच्छत्रुलोकस्य झम्पनोतर्कितमुपरिपातुकस्तेन नानोचैः प्रत्यजानताभ्युपागच्छन् । किंभूताः सन्तः । तादृशं जगज्झम्पनेति नामः सदृशं शत्रुलोकं झम्पयन्तमित्यर्थः । संजानानाः पश्यन्तोत एव हरेः सिंहस्य संजानन्तः स्मरन्तोस्मिन् जगज्झम्पनतालक्षणसिंहसाधर्म्यदर्शनात्सिंहं स्मरन्त इत्यर्थः ।।
तं संजानानाः । तं प्रत्यजानत । इत्यत्र "संप्रतेरस्मृतौ" [६९] इत्यात्मने । अस्मृताविति किम् । हरेः संजानन्तः ॥
१बी सी निछमा डी निच्छमा. २ सी समाग'. ३ ५ °मगिरि . ४५ प्रत्युजा. ५ सी डी 'नाः। प्रो.