________________
५३२
ब्याश्रयमहाकाव्ये
[वल्लभराजः]
आपृच्छतागतान्कांश्चिदानुवानमयूरवाक् ।
कांश्चिदागमांचके स दत्वकं प्रयाणकम् ॥ ३२॥ ३२. स वल्लभ एकं प्रयाणकं दत्त्वा कांश्चिद्वन्धुमित्रामात्यादीनागता. ननुवजनायायातानापृच्छत वियुज्यमानः प्रयाणकविषयेनुज्ञापितवान् । कीहक्सन् । आनुवान उत्कण्ठापूर्व शब्दायमानो यो मयूरस्तम्येव स्निग्धा मधुरा च वाग्यस्य सः । तथा कांश्चिन्नृपादीनागमयांचके कंचित्कालं प्रतीक्षितवान् । एतेन सर्वसैन्यमेलनमुक्तम् ॥ भानुवान । आपृच्छत । इत्यत्र “नुमच्छः" [५५] इत्यात्मने ॥ आगमयांचक्रे । अत्र "गमेः क्षान्तौ" [५५] इत्यात्मने ॥
तं नाहन्त नृपा यान्तमाहयन्तं जयश्रियम् ।
बन्धून्संहृयमानास्तु न्यहृयन्तार्थहेतवे ॥ ३ ॥ ३३. तं वल्लभं नृपा अन्तरालस्था राजानो नाहन्त स्पर्धमाना ना. कारितवन्तः । किंभूतं सन्तम् । जयश्रियमाह्वयन्तं मालव्यराजजयेच्छुमित्यर्थः । अत एव मालवान्प्रति यान्तम्। तुर्विशेषे । किं तु बन्धून्सं. हृयमाना मेलनायाकारयन्तः सन्तो नृपा अर्थहेतवे पूजार्थ तं न्यहृय. न्त न्यमन्त्रयन् ॥
व्यह्रास्तारानतांस्तान्स तद्वन्धूनप्युपाहत ।
तत्माभृतान्युपायंस्तोपतस्थे चावदेवताः ॥ ३४॥ ३४. स वल्लभस्तानृपानारात्समीपे नतान्सतो व्यहास्तालाप । तद्वन्धूनपि नृपाणां बान्धवांश्वोपाहताललाप । तथा तत्प्राभृतानि नृपढोकनान्युपायंस्ताङ्गीचक्रे । तथाध्वदेवता देवकुलादिस्था मार्गाधिष्ठातृदेवता निरुपद्रवायोपतस्थे च पुष्पफलादिनाचितवान् । एतेनास्य सौंचित्यनतोक्ता ॥
१ सी डी के किंचि . २ सी डी 'न् । इत्येते. ३ ए. यन्तं न्य.