________________
[है. ३.३.५९] सप्तमः सर्गः ।
५३३ अत्रोपतिष्ठते पारा सिन्धुमध्वैष कुन्तलान् ।
ब्रुवन्त इति राजान उपातिष्ठन्त केपि तम् ॥३५॥ ३५. केपि नृपास्तं वल्लभमुपातिष्ठन्त मैथ्या हेतुना फलेन वाराधयन् । कीदृशाः सन्तः । ब्रुवन्तो वेत्रिवद्विज्ञपयन्तः । किमित्याह । अत्र देशे पारा पाराख्या नदी सिन्धुं सिन्ध्वाख्यनदीमुपतिष्ठत उपश्लिष्यति । तथैष प्रत्यक्षोवा मार्गः कुन्तलान्देशभेदानुपतिष्ठते गच्छतीति । एतेन वल्लभोवन्तिमध्ये प्रविष्ट इत्युक्तम् । तत्र हि पारासिन्धुमेलनादि वर्तते ॥
उपातिष्ठन्त तं मत्रैस्ते मार्गाश्रमतापसाः ।
उपास्थुर्यानतिथयो ये दावृन्नोपतस्थिरे ॥३६ ॥ ३६. अतिथिवात्सल्यमहाधर्मनिष्ठत्वेन यानतिथय उपास्युलिप्सयोपाश्रितास्तथा ये महातपःपात्रत्वेन शिलोच्छवृत्तित्वादातृन्दायै:नृन्नोपतस्थिरे न लिप्सयोपाश्रितास्ते मार्गाश्रमतापसा मार्गनिकटाश्रमतिमुनयस्तं वल्लभं वर्णाश्रमगुरुत्वान्मत्रैराशीमत्रादिभिरुपातिष्ठन्ताराधयन् ।।
तं नाहन्त । इत्यत्र "हः स्पर्धे" [५६] इत्यात्मने ॥ स्पर्ध इति किम् । जयश्रियमाहयन्तम् ॥ संवयमानाः। न्यह्वयन्त । व्यह्रास्त । इत्यत्र "संनिवेः" [५७] इत्यारमने । उपाहत । इत्यत्र "उपात्" [५८] इत्यात्मने । उपायंस्त । इत्यत्र “यमः स्वीकारे" [५९] इत्यारमने ॥ अध्वदेवता उपतस्थे । तमुपातिष्ठन्त । पारा सिन्धुमुपतिष्ठते । एषोध्या
१बी निष्ठित्वे'. २ सी प:प्रावत्वे', डी प:प्रभावत्वे'. ३ सीडीय. कानो ४ ई कर्तृन्नो ५ वी इयत.