SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ [ ४० ३.२.५३.] सप्तमः सर्गः । ५३१ कमुपाक्रमन्त । एतेनैषां गजाश्वशिक्षाकौशलोक्तिः । प्रातर्हि गजाश्वशिक्षाकुशला राजपुत्रा हस्तिनोश्वांश्च सुगतिं शिक्षयन्तीति स्थितिः ॥ विक्रममाणत्वम् । अत्र "वेः स्वार्थे” [५० ] इत्यात्मने ॥ प्राक्रमन्त । उपाक्रमन्त । इत्यत्र “प्रोपादारम्भे" [ ५१] इत्यात्मने ॥ आक्रमत भास्करः अत्र “आङः” [५२] इत्यादिनात्मने ॥ पित्राज्ञामाददानोथ वल्लभः कण्टकच्छिदे | प्रतस्थेश्त्रैर्मुखं कूर्मो व्यादाव्यादाच्च भूर्यथा ॥ ३१ ॥ ३१. अथ वल्लभः पित्राज्ञां चामुण्डराजादेशमाददानोङ्गीकुर्वन्सेन्कण्टकेच्छिदे मालैव्य देशाधिपतेः शत्रोरुच्छित्तयेश्वैः कृत्वा तथातिबाहुल्याद्गाढसंमर्देन प्रतस्थे । यथा कूर्मः कमठो मुखं व्यादा गाढभारपीडया प्रसारितवान् । भूः पृथ्वी व्यादाच विदीर्णा ॥ चामुण्डराजः किलातिकामाद्विकलीभूतः सन्भगिन्यों वाचिणिदेव्या राज्यौत्स्फेटयित्वा तत्पुत्रो वल्लभो राज्ये प्रतिष्ठितः । चामुण्डराजेन चाभिमानवशादात्मसाधनार्थं वाराणस्यां गच्छता मालविकैविलुण्ठितच्छत्रादिराजचिह्नकेन पत्तन आगत्य वल्लभस्याज्ञा दत्ता यदि त्वं मदीयः पुत्रस्तदा मालविकेभ्यो मदीयच्छत्रादीन्मोचयेति वस्तुस्वरूपम् । एतच्च वर्ण्यत्वेनाधिकृतस्योपनिबध्यमानमनुचितमिति पित्रा - ज्ञामाददान इत्यनेन सूचितम् ॥ आददानः | अन “दाग : " [ ५३ ] इत्यादिनात्मने ॥ अस्वास्यप्रसारविकाश इति किम् । कूर्मो मुखं व्यादात् । भूयदात् ॥ १ ए बी सकण्ट. २ बी 'कच्छेदे. ३ डी 'लवदे ४ °ई एफ् न्या चाचि. ५ ई एफू 'ज्यात्स्फोट. ६ ए वारणस्यां बी वाणारस्यां. ७ ए सी डी 'लव कै. ८ बी अश्वास्य ९ बी प्रकार "
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy