________________
[है० १.२.३५.]
प्रथमः सर्गः। श्रान्तम् । अहो इत्याश्चर्ये । जान्विहेत्यत्र उ इति संबोधने । हे लोका आश्चर्य तस्यापि मारुतेरपीह पुर आन्तादन्तं मर्यादीकृत्याभिव्याप्य वा श्रीविशेषविलोकनाय जिगमिषोर्गन्तुमिच्छोः सतो जानु रुजेत् खिद्येत । संभावने सप्तमी । इदमहं संभावयामीत्यर्थः । एतेनास्य लङ्कासकाशादापि महत्तमत्वोक्तिः ॥ आन्तमित्यत्र क्रियाविशेषणे द्वितीया [२. २. ४१.] ॥
अमी अमुमुईचः । इत्यत्र “अदोमुमी" [३५] इस्यसंधिः ॥ अ एहि । आ एवं नु मन्यसे । इ ईक्षिताः। ई ईदृशि । उ उत्तिष्ठ । ऊ अहस्व । ए अस्मिन् । ओ अलम् । इत्यत्र "चादिः स्वरोनाइ" [३६] इत्यसंधिः ॥ स्वरे पर इति प्रत्यासत्तेस्तन्निमित्तकसंधिप्रतिपेधादिह दीर्घत्वलक्षणः संधिर्भवत्येव । जानू अरुजत् ॥ केचित्तु चाउचादिस्थानस्याचादिरूपत्वाखरनिमित्तकमपि संघिमिच्छन्ति । जान्विह ॥ अनाडिति किम् । आन्तम् ॥ अहो आन्तम् । इत्यत्र "ओदन्तः" [३५] इत्यसंधिः ॥
उ इत्यूँ इति विति' चाहो इत्याह्वायके गुरौ । विभो इति प्रभविति चाहात्र विनयी जनः ॥३३॥
३३. सुगमः । नवरं सर्वत्र उ इति संवोधने । आगच्छेत्यादिका च क्रिया सर्वत्राध्याहार्या । संबोध्यानां च बहुत्वादहूनि संबोधनपदानि । तथा विभो इति प्रभवितीत्येतयोः प्रत्युत्तरवाक्ययोरादिशेत्यादिक्रिया. ध्याहार्या । उपलक्षणत्वाद्भगवन्नित्यादीन्यपि गुरुसंबोधनपदानि झेयानि । प्रत्युत्तरदायिनामनेकत्वात् । इतिः सर्वत्र वाक्यपरिसमाप्तौ ॥
१ ए एफ ति वाहो.
१ सी डी तमोक्तिः ।. २ एफ र उ इति स. ३ डी बोधनीयाना. ४ एफ नि यानि । त'. ५ सी डी ति स.