________________
२६ ब्बाश्रयमहाकाव्ये
__ [मूलराजः] दिकं दृष्ट्वात्यन्तं रुष्टा पादपातादिकां प्रसादनक्रियां कुर्वाणेपि मानिनीत्वाद्यदा कथमपि न प्रसीदति तदा तत्सखीपार्धात्स तां प्रसादयति । तां च सखीमनुनयार्थ पत्यपराधं निगृहयन्ती मानिनी रुयाह ब्रूते । यथा । अ इति संबोधने । हे सखि एहि मद्वचःश्रवणाय मत्पार्वमागच्छ । इ इति संवोधने । हे सखि अमूं विप्रकृष्टवर्तिनी सपनीमञ्चति गच्छति यस्तस्यामुमुईचोस्य प्रियस्य कण्ठेमी प्रत्यक्षवर्तिनो नखास्त्वयेक्षिता दृष्टाः । एवं तया प्रत्यक्षमपराधे दर्शितेपि यावदद्यापि सखी किंचिन्न प्रतिवदति तावन्मानिनी मदुक्तं सत्यमप्येषा नाङ्गीकरोतीति कोपाविष्टाह । उ उत्तिष्ठ यद्या एवं नु मन्यस इति । उ इति संबोधने । आ निरनुबन्धः पूर्ववाक्यार्थवैपगत्ये वर्तते । पूर्व यत्त्वया पत्यपराद्धं मनितं तद्यदीदानीमेवं नु मन्यसे नु निश्चितमन्यथा मन्यसे तदा हे सखि उत्तिष्ठ मत्पाद्गिच्छ पूर्व मनितस्यार्थस्य केनापि द्रव्यलोभादिना हेतुनान्यथाभाषिण्या त्वयापि न प्रयोजनमित्यर्थः ॥ एवं परुषोक्तौ सखी मा रुषदिति विचिन्त्य पुनस्तां साम्नाह । ऊ ऊहवेत्यादि । ऊ इत्यक्षमायाम् । पतिमक्षाम्यन्ती प्राह । ए इति संबोधने । हे सखि त्वमूहस्त्र त्वमेव स्वचेतसि पर्यालोचय । ई इति खेदे । खिचेहमीदृशि व्यक्तमत्यन्तमपराद्धर्यस्मिन् पत्यौ विषये कथं रतिः प्रीतिः स्यात् । न कथमपीत्यर्थः। ओ इति संबोधने । हे सखि तत्तस्माद्धेतोरनेन पत्यालम् । मृतामिति ॥
न जान् अरुजल्लङ्कां भ्रमतो यस्य मारुतेः।
अहो आन्तं जिगमिषो रुजेत्तस्यापि जान्विह ॥ ३२ ॥ ३२. जानू इत्यत्र उ लोकसंबोधने । हे लोका यस्य मारुतेर्हनूमतो लङ्कां रावणपुरी भ्रमतो दहनाय पर्यटत: सतो जान्वष्ठीवान्नारुजन्न
१ सी सान' डी 'साधन. २ डी दा कदा क. ३ सी एफ यन्ती मा. ४ एफ व प्र. ५ सी एफ वं पुरु. ६ एफ स्तां सकोमलवचसा सा प्राह । . पफ लोक.