________________
[है० ३.३.४३.] सप्तमः सर्गः।
५२७ मा मृषीष्टेत्यनिद्रायद्गुर्वाशी:ध्वपि शात्रवम् ।
ताननिद्रायमाणान्द्राक्श्रुत्वामृत नु मूर्छितम् ॥२३॥ २३. अनिद्रावन्तो निद्रावन्तो भवन्ति "डांचोहितादिभ्यः पित्" [३.४.३०] इति क्या निद्रायमाणा न तथा ये तानुद्यमिनः कुमाराव् श्रुत्वा शात्रवमरिवृन्दं द्राङ् मूर्छितं महाभयाकुलत्वेनाचेतनं सदमृत नु मृतमिवाभूत् । कास्वपि सतीपु । अनिद्रायन्तस्तपोध्यानादौ जागरूका ये गुरवस्तेषामाशी:पु । कथमित्याह । मा मृषीष्टेति कुशली भूया इत्यर्थ इति ॥
अरिषडुर्ग व्यनयन्त । इत्यत्र "कर्तृस्थ" [४०] इत्यादिनात्मने ॥ कर्तृस्येति किम् । आर्ततां व्यनयन् । अमूर्तेति किम् । कर्फ ग्यनयन् ॥
शीयमानस्य । इस्यत्र "शदेः शिति" [1] इत्यात्मने । अमृत । मा मृषीष्ट । नियमाणस्य । इत्यत्र “म्रियतेः" [१२] इत्यादि. नात्मने ।
अनिद्रायमाणान् । अनिद्रायत् । इत्यत्र "क्यड्डो न वा" [३] इति वात्मने ।
नाद्योतिष्ट तथाग्रीनां छन्दसामधुतन च ।
नारोचिष्टादिपुंसां वा यथेषामरुचत्रयी ॥२४॥ २४. स्पष्टः । किं तु । अग्नीनां दक्षिणाग्निगार्हपत्याहवनीयानाम् । १ई त्रयम् ॥ १सी डाउलोहि'. २ बी तिक्यिजि. ३ ए कि यनि. ४ी सद् मृतमि'. ५ डी तीष्वप्यनि.६ सी जागुरू. ७ ए गुरुव. ८ई शीवपि। क. ९ सी पर न्य. १० ए ने I XOX मनि'. ११ बीन् । सीय. १२ सी को.