________________
५२६
ब्याश्रयमहाकाव्ये [चामुण्डराजः] उपनिन्ये गुरुस्तांस्त्रीभृत्यानिव महीपतिः।
कारं विनयमानाश्च प्रजाः प्रेक्षन्त तान्मुदा ॥२१॥ २१. यथा महीपतिश्चामुण्डराजो भृत्यानुपनिन्ये वेतनेनात्मसमीपं प्रापयत्तथा गुरुरुपाध्यायंस्त्रींस्तान्कुमारांनुपनिन्य आत्मानमाचार्य कुवस्तानध्यापनार्थमात्मसमीपं प्रापयत् । तथा कारं राजग्राह्यं भागं विनयमौना दानेनं शोधयन्त्यः प्रजास्तांस्त्रीन्मुदामी नः पालयिज्यन्तीति चिन्तोत्पन्नहर्षेण प्रेक्षन्त च ॥
मुझे । अत्र "भुनजोत्राणे" [३०] इत्यात्मने ॥ अत्राण इति किम् । मभुना। पितुरनुजहाते । अत्र "हगो गत" [३८] इत्यादिनात्मने ॥ मयमानौ नयागमे । गुरुस्तानुपनिन्ये । भृत्यानिवोपनिन्ये । यमुदानयमाना । नयते सुधारसे । कारं विनयमानाः । अर्थान्विनेष्यमाणः । अत्र "पूजाचार्यक." [३९] इत्यादिना पूजादिषु क्रमेणात्मने ॥
व्यनयन्तारिषडग ते कर्फ व्यनयन्श्रमात् । व्यनयञ्शीयमानस्य म्रियमाणस्य चार्तताम् ॥ २२ ॥ २२. ते कुमारा अरिषडर्गम् । षण्णां क्रोधादीनां वर्ग: षडगोरिः शत्रुर्यः षडुर्गस्तम् । व्यनयन्त जितेन्द्रियत्वेनाशमयन्त । तथा श्रमाच्छनाभ्यासाद्धेतोः कर्फ श्लेष्माणं व्यनयन् । श्रमेण हि कफ: शाम्यति । तथा कारुणिकत्वाच्छीयमानस्य परपराभवादिना दुःखिनो नियमाणस्य महाव्याध्यादिना प्राणांस्त्यजतश्चार्ततां पीडां व्यनयपरित्राणभैषज्यादिसंपादनेनोपाशमयन् ॥ १ए प्रजा . २ए ता मुदा ॥. इसी माण'. १ सी डी यस्त्रीतान्कु . २ ए रानुप. ३ सी डी'मानदा.४ सी 'न सोध' ही न साध'. ५ सी मान । न. ६ बी 'नोपश'.