________________
[है. ३.३.३६.] सप्तमः सर्गः।
५२५ भननुकीडमानाय । माक्रीडमानाः । परिकीडमानैः । भत्र "अन्वाइरेः" [३५] इत्यात्मने ।
भशपन्तास्मै । भत्र "शपः" [३५] इत्यादिनात्मने । अस्य नायन्ते । अत्र "भाशिषि नाथः" [३६] इत्यारमने ॥
सह तेनाग्रजो भुङ्क्ते स्माभुनक्सोपि तद्वचः । पितुस्तावनुनहाते नयमानौ नयागमे ॥१९॥ १९. तेन दुर्लभेन सहाप्रजो वल्लभो भुते स्मात्ति स्म । सोपि दुर्लभोपि तद्वचोप्रजवचनमभुनक् पालितवान् । एतेनैतयोरत्यन्तं स्नेहानुबन्ध उक्तः । तथा नयागमे नीतिशास्त्रे नयमानौ नयागमे संध्यादीन्सद्गुणान्युक्तिभिः स्थिरीकृत्यान्योन्यस्य सहाध्यायिराजकुमाराणां वा बुद्धिं प्रापयन्तावित्यर्थः । तौ कुमारौ पितुरनुजह्वाते पितुर्गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलितवन्तौ पितुर्गमनमविच्छेदेन शीलितवन्तौ वा पितृवर्जग्मतुर्वा पितृवच्छीलयामासतुवेत्यर्थः ॥
जन्ने विनेष्यमाणोर्थानागराजो नृपस्य तुक् । मातोदानयमाना यं नयते स्म सुधारसे ॥२०॥ २०. शुभलक्षणसूचितौदार्यधार्मिकत्वादिगुणत्वादर्थान्धनानि विनेष्यमाणो धर्माद्यर्थ तीर्थादिषु विनियोक्ष्यमाणो नागराजो नाम नृपस्य तुक् तृतीयः पुत्रो जज्ञे । यं नागराजमुदानयमानोत्सङ्ग आरोपणायोक्षिपन्ती सती माता सुधारसे नयते स्म सुधारसविषयं प्रमेयमाखादं निश्चिनोति स्म । अमृतपानसुखमनुबभूवेति तात्पर्यम् ॥
१ सी मभून. २ सी डी नैवत. ३ एच रकः । ४ वी जरमु जन्मतु. ५ डी जो नृ. ६ ए °तीयपु.
सी