________________
[है. ३.३.३२.] सप्तमः सर्गः।
५२३ तथा ज्ञैः पण्डितैः सह प्रज्ञा संक्ष्णविष्यते शास्त्रविनोदेन निर्मली. करिष्यति । सर्वगुणान्वितो महाराजाधिराजोयं भविष्यतीति सर्व. विशेषणतात्पर्यार्थ इति ॥
उदयुत । न्ययुत । इत्यत्र "उत्स्वराद्" [२६] इत्यादिनात्मने ॥ अयज्ञतरपात्र इति किम् । प्रयुञ्जन्यज्ञपात्राणि ॥
परिक्ष्यते । विक्रेप्यते। अवक्रेप्यते । अत्र "परिवि" [२५] इत्यादिनात्मने । पराजेष्यते । विजेप्यते । अत्र "परावेजेः" [२८] इत्यात्मने । संक्षणविष्यते । अत्र "संमः क्ष्णोः" [२९] इत्यात्मने ॥
जन्मास्योचरमाणोपस्किरमाणवृषध्वनिः ।
संचेरे तुरगैास्थलोको वर्धयितुं नृपान् ॥ १६ ॥ १६. द्वास्थलोको नृपान्वर्धयितुं तुरगैः कृत्वा संचेरेभ्रमत् । की. एक्सन् । अस्य दुर्लभस्य जन्मोचरमाण: । अन्तर्भूतणिगर्थः सकर्मकः । उच्चारयन् । अत एँवापस्किरमाणो हृष्टत्वात्तटादि विलिखन्यो वृषः शण्डस्तस्येव हर्पकर्षेणोदात्तो गम्भीरश्च ध्वनिर्यस्य सः॥
अपस्किरमाण । हत्यत्र “अपस्किरः" [३०] इत्यात्मने । जन्मोच्चरमाणः । अत्र "उदरैः साप्यात्" [३१] इस्यात्मने । तुरगैः संचेरे । अत्र “समस्तृतीयया" [३२] इत्यात्मने ।
१ सी डी °न्वितम. २ ए शेषेण'. ३ बी उत्सरा'. ४५ समणोः . ५ बी सी डी भराजस्य. ६ डीभूतोत्रणि. ७ए एवोप. ८ सी डी विलखन्या वृ. ९ सी डी प्रहर्षे. १० सी डी : सोप्या'.