________________
५२१
ट्याश्रयमहाकाव्ये [चामुण्डराजः] राज्ञो दुर्लभराजोभूत्पुत्रोन्य इति तर्कभूः।
नोदयुतासुरः कोपि स्वं न्ययुङ्क्तेह किं हरिः॥ १३ ॥ १३. राज्ञो दुर्लभराजो नामान्यो द्वितीयः पुत्रोभूत् । कीदृक् । इति तर्कभूः । एवंविधस्य लोक वितर्कस्य स्थानम् । एवं लोकैर्वितय॑माण इत्यर्थः । कथमित्याह । यस्मादिह दुर्लभराजे सत्युद्भूतमयातिरेकेण कोप्यसुरो नोदयुत नोदयच्छन्न कोपि दैत्यो मस्तकमुत्पाटितवानित्यर्थः । तत्किमिह दुर्लभे हरिर्विष्णुः स्वमात्मानं न्ययुत व्यापारितवान् । दुर्लभराजरूपी किमयं हरिरभूदित्यर्थः । हरौ ह्युत्पन्नेसुरः कोपि नोद्युत इति ॥
प्रयुञ्जन्यज्ञपात्राणि परिक्रेष्यत आशिषः । मुख्या विक्रेष्यते शुक्रं सतोवक्रेष्यते गुणैः ॥ १४ ॥ शैलान्विजेष्यते स्थानारीन्पराजेष्यते बलैः ।
है। संक्षणविष्यते प्रज्ञा दैवबॅरित्यशंस्यसौ ॥१५॥ १४,१५. असौ दुर्लभो देवज्योतिषिकैर्जन्मकुण्डलिकास्थशुभप्रहपातविचारणयेत्येवंविधोशंसि कथितः । यथा यज्ञपात्राणि यागभाजनानि प्रयुञ्जन्यज्ञे व्यापारयन्यज्ञं कारयन्नित्यर्थः । असावाशिषो यष्ट्रादिप्रयुक्ताशीर्वादान्परिकेष्यते संग्रहीष्यतीत्यर्थः । तथा बुद्ध्या कृत्वा शुक्र विक्रेष्यते पराजेष्यत इत्यर्थः । तथा गुणैः कृत्वा सतः साधूनवक्रेष्यत आवर्जयिष्यतीत्यर्थः । तथा स्थाना स्थैर्येण बलेन वा कृत्वा शैलान्विजेष्यते । तथा बलैः सैन्यैः कृत्वारीन्पराजेष्यते ।
१ सी हो १ए। कस्मादि . २ डी रूपः कि. ३ डी ज्यौति'. ४ डी यन्वादि. ५सी 'वावीन्य'.