________________
दहे. ३.३.२५.]
सप्तमः सर्गः ।
५२१
पमातरो व्यत्यहसन् परस्परमन्योन्यं कर्म व्यत्यपश्यंश्च । स्त्रीणां जातिस्वभावोयं यदा बालकः स्वावस्थाननुरूपां विशिष्टां चेष्टां करोति तदानन्दाश्चर्याभ्यां हसन्ति मिथः पश्यन्ति च ॥ __ व्यतिक्रिीडे। व्यतिजहे । व्यत्यूहे । अत्र “क्रियाव्यति" [२३] इत्यादिनात्मनेपदम् ॥ अगतिहिंसाशब्दार्थहस इति किम् । व्यतीयुः । व्यत्ययुः । व्यत्यहिनत् । व्यतिजघान । व्यत्युवाद । व्यत्यपाठीत् । व्यत्यहसन् ॥ अनन्योन्यार्थ इति किम् । व्यत्यपश्यन्परस्परम् ॥
चित्ते न्यविशत न्यास्यन्मुदं न्यास्यत विस्मयम् ।
सोपोहत्संशयं राज्ञोपोहतारिमनोरथान् ॥ १२ ॥ १२. स वल्लभोद्भुतविनयशौर्यादिगुणै राज्ञः पितुश्चित्ते न्यविशेतावसत् । तथा राज्ञश्चित्ते मुदं न्यास्यत्समस्थापयत् । तथा राज्ञश्चित्ते विस्मयं न्यास्यत । तथा राज्ञश्चित्ते संशयं कीÉगयं पुत्रो भविष्यतीति संदेहमपौहच्चिच्छेद । अत एवारिमनोरंथांश्चामुण्डराजानन्तरं वयं सुखं स्थास्याम इत्यहिताशा अपौहत ॥
न्यविशत । इत्यत्र "निविशः" [२५] इत्यात्मनेपदम् ॥ न्यास्थत न्यास्यत् । अपोहत अपौहत् । इत्यत्र “उपसर्गादस्योहो वा" [२५] इति वात्मने ।
१ सी रकान् ॥.
१ सी में वित्य. २ सी स्थानपा. डी स्थानुरू'. ३ सी क्रीड । व्य. ४ सी डी व्यत्युहे । ५ सी शतोव . ६ सी डी दृग् पु. ७ सी हमारोह ८ए सीई रथाश्चा. ९ ई °यं स्था'. १० एन्यवश. ११ डी निवशः. १२ ए स्यो वा. १३ ई नेपदम् ॥.