________________
द्याश्रयमहाकाव्ये सप्तमः सर्गः ।
मौलराजिः सोथ पृथ्वीं पार्थो न्वैलो नु पालयन् । राज्ञां प्रभवति स्मोच्चैर्गुणवृद्धिमनोहरः ॥ १ ॥
१. अथ स मौलराजिचामुण्डराजो राज्ञां प्रभवति स्म प्रभुरभूदित्यर्थः । कीदृक्सन् । उच्चैरुदात्तानां गुणांनी शौर्यादीनां या वृद्धि: स्फीतता तथा । यद्वा । गुणाश्च वृद्धिश्च कोशसैन्यादिवर्धनं 'गुणमूला वृद्धि:' इति गुणानामर्यत्वात्प्राग्निपाते ताभिः । मनोहरः । अत एव पार्थो नु । पृथाया अपत्यम् "अदोर्नदी” [६-१.६६ ] इत्यादिनाणू । युधिष्ठिर इव । ऐलो नु । इलाया अपत्यम् प्राग्वदण् पुरूरवा इव पृथ्वीं पालयन् ॥
I
गुणवृद्धीत्यनेन "वृद्धिरैदौत्” [१] गुणोरेदोत्" [२] इति संज्ञासूत्रे सू. चिते । तयोश्च प्रयोजनम् । पालयन् । पार्थः । ऐल: । मौलराजिः । इत्यत्र - “वृद्धिः स्वरेषु” [७.४.१] इत्यादिनारदौतः ॥ मनोहरः । पालयन् । प्रभवति । इत्यत्र च "नामिनो गुणोद्धिति” [ ४.३.१] इत्यरेदोतः ॥
प्रभवति । इत्यत्र "क्रियार्थो धातुः” [३] इति क्रियार्थो भूशब्दो धातुसंज्ञः ॥ नोत्सुकायत स कापि कीत्य सोभ्यमनायत ।
अदीयत मही तेन तेनादीयन्त च द्विषः ॥ २ ॥
२. से चामुण्डराजः क्वापिकस्मिन्नपि कार्ये नोत्सुकायत नोत्सुक्य
१ सी डी 'नां सौर्या . २ सी डी सका. ३ सी डी थें चामुण्डराजः नौ